Enter your Email Address to subscribe to our newsletters

चम्पावतनगरम्, १६ अप्रैलमासः (हि.स.)। जनपदस्य प्राचीन-पाण्डुलिपिनां तथा दुर्लभ-ज्ञान-संपदायाः प्रकाशनाय ‘ज्ञान-भारतम्-मिशन’ इत्यस्य अन्तर्गतं राष्ट्रीय-पाण्डुलिपि-सर्वेक्षण-अभियानं शीघ्रमेव चम्पावत-जनपदे प्रारभ्यते। अस्य माध्यमेन प्रदेशे प्रसरितं ऐतिहासिकं बौद्धिकं च धरोहरं चिन्हीकृत्य डिजिटल-रूपेण संरक्षितं कर्तुं योजना अस्ति।
अस्मिन् अभियाने सर्वकारी-निज-पुस्तकालयाः, मन्दिराणि, मठाः, आश्रमाः, गुरुकुलानि तथा शिक्षण-संस्थाः विस्तीर्णतया समाविष्टाः भविष्यन्ति। विशेषतः निजी-संग्रहेषु सुरक्षिताः ताडपत्र-पाण्डुलिपयः, हस्तलिखित-ग्रन्थाः तथा दुर्लभ-तथ्यानि अपि अस्य सर्वेक्षणस्य भागाः भविष्यन्ति। समग्र-प्रक्रिया ‘ज्ञान-भारतम् ऐप’ इत्यस्य डिजिटल-मञ्चेन सञ्चाल्यते, येन पाण्डुलिपिनां सुव्यवस्थितं दत्तांश-संकलनं सम्भविष्यति।
जनपदाधिकारी मनीष-कुमारः निर्देशं दत्तवान् यत् एतत् अभियानं निर्धारित-समयसीमायां पूर्णः करणीयः। तेन उक्तं यत् चम्पावत-जनपदस्य सांस्कृतिक-ऐतिहासिक-पृष्ठभूमिः अत्यन्तं समृद्धा अस्ति, अतः निजी-स्तरे अपि बहवः दुर्लभ-पाण्डुलिपयः प्रकाशं गन्तुं शक्नुवन्ति।
त्रि-मासिक-अवधौ सम्पन्नव्यस्य अस्य सर्वेक्षणस्य कृते शिक्षकाः, एनएसएस-एनसीसी-स्वयंसेवकाः तथा ग्राम-स्तरीय-कर्मचारिणः नियोजिताः भविष्यन्ति। प्रशासनेन स्पष्टं कृतम् यत् सर्वेक्षण-काले मूल-संग्रहकर्तॄणां अधिकाराः पूर्णतया सुरक्षिताः भविष्यन्ति।
प्रशासनं जनसहभागितायाः अपि आह्वानं कृतवान्, येन अस्य अमूल्य-धरोहरायाः संरक्षणं कृत्वा भावि-वंशस्य सुरक्षितरूपेण समर्पितुं शक्येत।
हिन्दुस्थान समाचार / अंशु गुप्ता