Enter your Email Address to subscribe to our newsletters

रायपुरम्, १७ अप्रैलमासः (हि.स.)। छत्तीसगढ-राज्यस्य मुख्यमन्त्री विष्णुदेव-सायः अद्य शुक्रवासरे जशपुर-जनपदस्य प्रवासे भविष्यति। सः अत्र रणजीता-स्टेडियम् इत्यत्र आयोजिते प्रधानमन्त्री-ग्राम-सड़क-योजना (पीएमजीएसवाय) इत्यस्य राज्य-स्तरीय-कार्यक्रमे सहभागी भविष्यति। अस्मिन् अवसरे राज्ये स्वीकृतानां नवीन-मार्गाणां भूमिपूजनं विभिन्न-विकास-कार्याणां च लोकार्पणं क्रियते।
स्वस्य प्रवास-कालमध्ये मुख्यमन्त्री सायः वृद्धजनानां कृते नवनिर्मितस्य ‘सियान-गुड़ी’ इति डे-केयर-एककस्य अपि शुभारम्भं करिष्यति। जनपद-प्रशासनस्य पक्षतः अस्य कार्यक्रमस्य सज्जताः तीव्रतया क्रियन्ते। उपायुक्तः रोहित-व्यासः तथा एसएसपी लाल-उमेद-सिंहः रणजीता-स्टेडियम् उपगम्य कार्यक्रम-स्थलस्य निरीक्षणं कृतवन्तौ।
हिन्दुस्थान समाचार / अंशु गुप्ता