Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, १७ अप्रैलमासः (हि.स.)। राज्य-सर्वकारस्य हितकारी-योजनाभ्यः अद्य उत्तर प्रदेश-राज्यस्य युवा-जनाः आत्मनिर्भराः भवन्ति। अस्यैव दृष्टेः कार्यान्वयनं कुर्वन् इटावा-जनपदस्य गाड़ीपुरा-निवासी बिलाल-हसनः सर्वकार-योजनायाः साहाय्येन स्वकीयम् उद्योगं स्थापितवान् तथा सफलः उद्यमी अभवत्।
बिलाल-हसनः अवदत् यत् तेन जनपद-उद्योग-केन्द्रस्य माध्यमेन सम्यक् सूचनां प्राप्य ‘मुख्यमन्त्री-युवा-स्वरोजगार-योजना’-अन्तर्गतं १० लक्ष-रूप्यकाणां ऋणं प्राप्तम्। अस्य योजनायाः अन्तर्गतं प्राप्तया वित्तीय-सहायतया तेन स्वकीयः मुद्रण-प्रेसः तथा फ्लेक्स-व्यवसायः आरब्धः। वित्तीय-सहायतां सर्वकार-सहयोगं च प्राप्य तेन स्व-व्यवसायः सफलतया स्थापितः तथा निरन्तरं प्रवर्ध्यते। स्वस्य उद्यमेन बिलाल-हसनः न केवलं आत्मनिर्भरः अभवत्, अपि तु अधुना सः प्रति-मासं ५०–६० सहस्र-रूप्यकाणां आयं अर्जयति। अनेन सह तेन पञ्च अन्येभ्यः जनेभ्यः अपि रोजगारः प्रदत्तः, येन तेषां आर्थिक-स्थितिः अपि सुदृढा अभवत्।
उल्लेखनीयम् अस्ति यत् राज्ये सञ्चालिता ‘मुख्यमन्त्री-युवा-स्वरोजगार-योजना’ शिक्षित-बेरोजगार-युवानां कृते सशक्ता प्रयत्न-रूपेण उदिता अस्ति। अस्य योजनायाः माध्यमेन युवभ्यः स्व-व्यवसाय-आरम्भाय सुलभं ऋणं मार्गदर्शनं च प्रदीयते। अनेन न केवलं रोजगार-अवसराः वर्धन्ते, अपि तु युवानः स्वयं रोजगार-दातारः अपि भवन्ति। ग्राम्य-नगरीय-क्षेत्रयोः लघु-उद्योगाः स्थाप्यन्ते, येन राज्यस्य आर्थिक-विकासः अपि वेगेन प्रसरति। अस्य योजनायाः अन्तर्गतं विनिर्माण-क्षेत्रे अधिकतमं २५ लक्ष-रूप्यकाणां ऋणं तथा सेवा-क्षेत्रे अधिकतमं १० लक्ष-रूप्यकाणां ऋणं, परियोजना-व्ययस्य आधारेण अनुदान-रूपेण अपि प्रदीयते। इच्छुकाः जनाः जनपद-उद्योग-केन्द्रस्य माध्यमेन पूर्णां सूचनां प्राप्य अस्याः योजनायाः लाभं लब्धुं शक्नुवन्ति तथा उद्यमित्वस्य स्वप्नं साकारयितुं समर्थाः भवन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता