राज्यपालेन प्रथम खेलो इंडिया जनजातीयक्रीडाभागं गृहीतवन्तः क्रीडकाः मेलनम्
रांची,17 अप्रैलमासः (हि.स.)। झारखण्ड-राज्यस्य राज्यपालः सन्तोष-कुमार-गंगवारः शुक्रवासरे छत्तीसगढ-राज्यस्य अम्बिकापुर-नगरस्थिते सरगुजा-गांधी-स्टेडियमे आयोजिते “प्रथम-खेलो-इण्डिया-जनजातीय-खेल–२०२६” इत्यस्मिन् स्पर्धायां भागं गृहीतवन्तः झारखण्ड-राज्यस
राज्यपाल और खिलाड़ी


रांची,17 अप्रैलमासः (हि.स.)। झारखण्ड-राज्यस्य राज्यपालः सन्तोष-कुमार-गंगवारः शुक्रवासरे छत्तीसगढ-राज्यस्य अम्बिकापुर-नगरस्थिते सरगुजा-गांधी-स्टेडियमे आयोजिते “प्रथम-खेलो-इण्डिया-जनजातीय-खेल–२०२६” इत्यस्मिन् स्पर्धायां भागं गृहीतवन्तः झारखण्ड-राज्यस्य क्रीडकाः राञ्ची-नगरस्थिते लोक-भवने शिष्टाचार-भेटीं कृतवन्तः।

अस्मिन् अवसरे झारखण्ड-राज्य-मल्लखम्ब-एसोसिएशनस्य महासचिवः डॉ० अजय-झा राज्यपालं अवगतवान् यत् झारखण्डस्य क्रीडकाः बालक-वर्गे बालिका-वर्गे च उत्कृष्टं प्रदर्शनं कृत्वा समग्र-क्रमाङ्कने कांस्य-पदकं प्राप्तवन्तः। राज्यपालः अस्याः उपलब्धेः विषये प्रसन्नतां व्यक्त्वा क्रीडकान् हार्दिकाभिनन्दनं शुभाशंसां च अदात्।

तेन उक्तं यत् अस्माकं राज्यस्य जनानां क्रीडासु गाढा अभिरुचिः अस्ति, तथा क्रीडकाः स्वप्रतिभया परिश्रमेण अनुशासनेन च राष्ट्रीय-स्तरे झारखण्डस्य यशः वर्धयन्ति, यत् अत्यन्तं प्रशंसनीयम् अस्ति।

सः क्रीडकान् निरन्तर-अभ्यासेन समर्पणेन अनुशासनेन च अग्रे गन्तुं प्रेरितवान् तथा तेषां उज्ज्वल-भविष्यस्य कामनां कृतवान्।

उल्लेखनीयम् अस्ति यत् अस्य आयोजनस्य आधिकारिक-शुभंकरः “मोरवीर” इति आसीत्।---------------

हिन्दुस्थान समाचार