मध्यप्रदेशस्य मुख्यमन्त्री अद्य ओंकारेश्वरे सांस्कृतिक-महाकुम्भस्य ‘एकात्म-पर्वणः’ शुभारम्भं करिष्यति
भोपालनगरम्, १७ अप्रैलमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहनयादवः अद्य शुक्रवासरे भारतीयसंस्कृतेः पुनरुद्धारकस्य अद्वैत-वेदान्तस्य प्रखर-प्रणेतुः आदिगुरोः शंकराचार्यस्य दीक्षास्थले ओंकारेश्वरे सांस्कृतिक-महाकुम्भस्य पञ्चदिनात्मकस्य ‘एकात्म
मुख्यमंत्री डॉ. मोहन यादव अपने निवास से वर्चुअली संवाद करते हुए


भोपालनगरम्, १७ अप्रैलमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहनयादवः अद्य शुक्रवासरे भारतीयसंस्कृतेः पुनरुद्धारकस्य अद्वैत-वेदान्तस्य प्रखर-प्रणेतुः आदिगुरोः शंकराचार्यस्य दीक्षास्थले ओंकारेश्वरे सांस्कृतिक-महाकुम्भस्य पञ्चदिनात्मकस्य ‘एकात्म-पर्वणः’ मङ्गलमय-शुभारम्भं करिष्यति।

जनसम्पर्क-अधिकारी अनुराग-उइके इत्यनेन दत्त-सूचनानुसारं मांधाता-पर्वतस्य कन्दरासु स्थिते ‘एकात्म-धाम’ नाम्नि आयोजितः अयं महोत्सवः दार्शनिक-चिन्तनस्य, सांस्कृतिक-चेतनायाः, आध्यात्मिक-ऊर्जायाश्च अद्वितीयः संगमः भविष्यति। वैशाख-शुक्ल-पञ्चम्याः पावन-अवसरे आयोजिते अस्मिन् अनुष्ठाने देश-विदेशयोः शीर्ष-सन्तः, मनीषिणः, विद्वांसश्च सहभागित्वं कृत्वा एकात्मतायाः वैश्विकं सन्देशं प्रकाशयिष्यन्ति।

सः अवदत् यत् मुख्यमन्त्री डॉ.यादवः ‘अद्वैत-लोक’ तथा ‘अक्षर-ब्रह्म-प्रदर्शनी’ इत्यस्य लोकार्पणं करिष्यति, वैदिक-अनुष्ठानेऽपि सहभागी भविष्यति। अस्मिन् अवसरे द्वारका-पीठाधीश्वरः जगद्गुरुः शंकराचार्यः स्वामी श्री सदानन्द-सरस्वती, विवेकानन्द-केन्द्रस्य उपाध्यक्षः पद्मश्री निवेदिता-भिडे, स्वामी शारदानन्द-सरस्वती च उपस्थिताः भविष्यन्ति।

निर्धारित-कार्यक्रमानुसारं मुख्यमन्त्री डॉ.यादवः प्रातः भोपालात् हेलिकॉप्टर-यानद्वारा प्रस्थानं कृत्वा प्रातः ९.३० वादने ओंकारेश्वरं प्राप्स्यति। स्थानीय-कार्यक्रमेषु सहभागित्वं कृत्वा सः अपराह्णे १.२० वादने पुनः भोपालं प्रति प्रस्थानं करिष्यति।

जनसम्पर्क-अधिकारी अनुसारं ‘एकात्म-पर्वणः’ अन्तर्गतं ‘अद्वैतामृतम्—विमर्श-सभा’ नाम्नः वैचारिक-सत्रस्य आयोजनं भविष्यति, यत्र अद्वैत-दर्शनस्य समकालीन-प्रासंगिकतायाः विषये गम्भीरः संवादः भविष्यति। विशेषतः प्रथम-दिने ‘अद्वैतं तथा Gen-Z’ इत्यादि आधुनिक-विषये युवा-दृष्टिकोणः प्रस्तुतः भविष्यति। अनन्तर-दिनेषु अद्वैत-दर्शनस्य कृत्रिम-बुद्धिमत्ता (AI), पर्यावरण-संरक्षणं, वैश्विक-शान्तिः, तथा सिक्ख-सम्प्रदायस्य ‘एक ओंकार’ इत्यनेन सह अन्तर्सम्बन्धेषु विद्वद्भिः चर्चाः क्रियन्ते। एषः बौद्धिक-मन्थनः आधुनिक-समाजं नव-वंशं च अद्वैतस्य शाश्वत-सिद्धान्तेन सह संयोजयितुं अभिनवः प्रयासः अस्ति।

‘रसो वै सः’ इति सांस्कृतिक-सन्ध्यायाः अन्तर्गतं प्रतिदिनं देशस्य प्रतिष्ठित-कलाकाराः स्व-कला-प्रदर्शनं करिष्यन्ति। महोत्सवस्य प्रथम-दिने श्री-जयतीर्थ-मेवुण्डी इत्यस्य शास्त्रीय-गायनम्, शुभदा-वराडकर-इत्यस्य ओडिसी-नृत्य-प्रस्तुतिः ‘एकम्’ विशेष-आकर्षणं भविष्यति। अनन्तर-दिनेषु भरतनाट्यम्, कर्नाटक-संगीतम्, निर्गुण-वाणी च माध्यमेन अद्वैत-भावाः अभिव्यक्ताः भविष्यन्ति।

महोत्सवस्य एकः अत्यन्तं महत्वपूर्णः पक्षः २१ अप्रैल-दिने आयोजितः दीक्षा-समारोहः अस्ति, यस्मिन् देश-विदेशयोः ७०० अधिकाः युवानः ‘शंकरदूत’ रूपेण संकल्पं गृह्णन्ति।

मध्यप्रदेश-सर्वकारः ‘ओंकारेश्वर’ इति स्थले ‘एकात्म-धाम’ इत्यस्य माध्यमेन आचार्य-शंकरस्य दर्शनं वैश्विक-पटलस्य उपरि प्रतिष्ठापयति। अत्र स्थापितं १०८-फुट-उन्नतं ‘एकात्मता-प्रतिमा’ (Statue of Oneness) तथा निर्माणाधीनः ‘अद्वैत-लोक’ संग्रहालयः केवलं पर्यटनस्य न, अपि तु आध्यात्मिक-जिज्ञासायाः वैश्विक-केंद्ररूपेण अपि उद्भवतः। श्वः आरभ्यमाणः अयं पर्वः समग्र-राष्ट्रं सांस्कृतिक-वैचारिक-सूत्रेण संयोजयितुं महत्त्वपूर्णं पादं सिद्धं भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता