Enter your Email Address to subscribe to our newsletters

कोलकातानगरम्, १७ अप्रैलमासः (हि.स.)। पश्चिम-बङ्गाल-राज्यस्य मुख्यमन्त्री ममता-बनर्जी शुक्रवासरे सामाजिक-माध्यमे ‘एक्स’ इत्यत्र भारतस्य पूर्व-राष्ट्रपतिं सर्वपल्ली-राधाकृष्णन् इत्येतं प्रति तस्य पुण्यतिथौ श्रद्धाञ्जलिं समर्पितवती।
स्वस्य सन्देशे ममता-बनर्जी-इत्यनया लिखितम्— “अस्माकं पूर्व-राष्ट्रपतये डॉ.सर्वपल्ली-राधाकृष्णनाय तस्य पुण्यतिथौ विनम्रां श्रद्धाञ्जलिं समर्पयामि।” सा उक्तवती यत् शिक्षायाः, दर्शनस्य तथा राष्ट्र-निर्माणस्य क्षेत्रेषु तस्य योगदानं सदा प्रेरणादायकं भविष्यति।
डॉ.सर्वपल्ली-राधाकृष्णनः न केवलं महान् शिक्षकः तथा दार्शनिकः आसीत्, अपि तु भारतस्य राष्ट्रपतित्वेन अपि देशस्य सेवां कृतवान्। तस्य शिक्षाः विचाराश्च अद्यापि समाजं मार्गदर्शनं कुर्वन्ति।
डॉ.सर्वपल्ली-राधाकृष्णनः भारतस्य द्वितीयः राष्ट्रपतिः आसीत् तथा प्रख्यात-दार्शनिकरूपेण विश्वे सर्वत्र सम्मानितः आसीत्।
तस्य जन्मदिवसः, पञ्चम-सेप्टेम्बर-दिनाङ्के, भारतदेशे ‘शिक्षक-दिवसः’ इति रूपेण आचर्यते, यत् शिक्षां प्रति तस्य अमूल्य-योगदानस्य प्रतीकः अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता