डॉ. सर्वपल्ली राधाकृष्णन् इत्यस्य पुण्यतिथौ शुभेंदु अधिकारी अददात् श्रद्धांजलिम्
कोलकाता, 17 अप्रैलमासः (हि.स.)। महान् शिक्षकः, भारतस्य पूर्वराष्ट्रपतिः तथा भारतरत्न-पुरस्कारस्य प्राप्तः सर्वपल्ली राधाकृष्णन इत्यस्य पुण्यतिथौ पश्चिमबङ्गराज्यस्य वरिष्ठ-भाजपानेता तथा विधानसभायां विपक्षनेता शुभेंदु अधिकारी तस्मै श्रद्धांजलिं अर्
सर्वपल्ली राधाकृष्णन जी को श्रद्धांजलि


कोलकाता, 17 अप्रैलमासः (हि.स.)।

महान् शिक्षकः, भारतस्य पूर्वराष्ट्रपतिः तथा भारतरत्न-पुरस्कारस्य प्राप्तः सर्वपल्ली राधाकृष्णन इत्यस्य पुण्यतिथौ पश्चिमबङ्गराज्यस्य वरिष्ठ-भाजपानेता तथा विधानसभायां विपक्षनेता शुभेंदु अधिकारी तस्मै श्रद्धांजलिं अर्पितवान्। तेन उक्तं यत् डॉ. राधाकृष्णनस्य जीवनं शिक्षा-ज्ञान-राष्ट्रसेवायाः प्रति समर्पणस्य प्रतीकं वर्तते।

निर्वाचन-प्रचार-अभियानस्य अन्तर्गतं अपि शुभेंदु अधिकारी विविधेषु कार्यक्रमेषु सहभागित्वं करिष्यति। भारतीय जनता पार्टी इत्यस्य पक्षतः आयोजितेषु “विजय-संकल्प-सभा” तथा प्रचार-कार्यक्रमेषु माध्यमेन सः अनेकासु विधानसभा-क्षेत्रेषु पक्षस्य अभ्यर्थिनां समर्थनार्थं जनसभाः सम्बोधितुं योजनां कृतवान्।

निर्धारित-कार्यक्रमानुसारं प्रातःकाले कांथी-विधानसभा-क्षेत्रे भाजपाया अभ्यर्थिनः कमला-कान्त-हाण्डा इत्यस्य समर्थनार्थं सभा आयोजिता। ततः अनन्तरं शालबोनी-विधानसभा-क्षेत्रे अभ्यर्थिन्याः चन्दना-बाउरी इत्यस्याः समर्थनार्थं जनसभा भविष्यति। तथा च सोनामुखी-विधानसभायां अभ्यर्थिनः दिवाकर-घरामी इत्यस्य पक्षे अपि प्रचार-कार्यक्रमः आयोजितः अस्ति।

अतिरिक्ततया मेदिनीपुर-विधानसभा-क्षेत्रे अभ्यर्थिनः डॉ. शंकर-गुच्छायित इत्यस्य समर्थनार्थं विजय-संकल्प-यात्रा, तथा पूर्व-पांसकुड़ा-विधानसभा-क्षेत्रे अभ्यर्थिनः सुरजीत-माइती इत्यस्य समर्थनार्थं जनसभा आयोजनस्य सूचना अपि प्रदत्ता अस्ति।

---------------

हिन्दुस्थान समाचार