वैशाख-अमावास्यायां हरिद्वार-नगरे श्रद्धाया: सागरः प्रवहति, गङ्गा-घाटेषु श्रद्धालूनां विशालः समागमः अभवत्
हरिद्वारनगरम्, १७ अप्रैलमासः (हि.स.)। वैशाख-अमावास्यायाः पावन-अवसरे धर्मनगरे हरिद्वारे श्रद्धायाः जनतरङ्गः आगतः। शुक्रवासरस्य प्रातःकालात् एव हर की पैड़ी-सहितं गङ्गायाः विविधेषु घाटेषु श्रद्धालवः पुण्यस्य लाभाय स्नानं कृत्वा धर्मलाभं प्राप्तवन्तः।
फाईल फोटो

श्रद्धालवः गङ्गास्नानानन्तरं मन्दिराणि गत्वा देवदर्शनं कृतवन्तः तथा दान-पुण्य-कार्याणि सम्पन्नानि। अस्मिन् काले नारायणी-शिला-स्थले पितॄणां शान्तये मोक्षस्य च कामनया नारायण-बलि, पिण्डदानं तर्पणं च इत्यादीनि धार्मिक-अनुष्ठानानि बहुसंख्यया सम्पन्नानि। अमावास्यायाः दिने दान-पुण्यस्य विशेषं महत्त्वं मन्यते, येन कारणेन श्रद्धालवः अन्न-वस्त्र-धनादिनां दानं कृत्वा पुण्यं अर्जितवन्तः। तथा च विविधेषु आश्रमेषु अखाडा-इत्यादिषु च विशेष-पूजार्चना धार्मिक-अनुष्ठानानि च आयोजितानि।

अस्मिन्नेव दिने विश्वप्रसिद्धा चार-धाम-यात्रा अपि आरब्धा, येन तीर्थनगरे श्रद्धालूनां संख्या अधिकतया वर्धिता। हरिद्वारे दिवसभरं श्रद्धा-भक्ति-उत्साहानां वातावरणं विद्यमानम् आसीत्।

हिन्दुस्थान समाचार / अंशु गुप्ता