देशे अधुना यावत् सर्वतोऽधिकं रूफटॉप सोलर संयंत्रं स्थापितं कर्तुं जिला जाता लखनऊस्था
लखनऊ, 18 अप्रैलमासः (हि.स.)। लखनऊ नगरं सौर-ऊर्जा-क्षेत्रे महान् उपलब्धिं प्राप्तवान्, यतः तत् देशे सोलर-स्थापन-प्रकरणे शीर्ष-स्थानं प्राप्तवान्। योगी आदित्यनाथ-महाभागस्य नेतृत्वे प्रवर्तमानया रूफटॉप-सौर-ऊर्जा-अभियानेन, विशेषतः प्रधानमंत्री सूर्य
सांकेतिक फाेटाे


लखनऊ, 18 अप्रैलमासः (हि.स.)।

लखनऊ नगरं सौर-ऊर्जा-क्षेत्रे महान् उपलब्धिं प्राप्तवान्, यतः तत् देशे सोलर-स्थापन-प्रकरणे शीर्ष-स्थानं प्राप्तवान्। योगी आदित्यनाथ-महाभागस्य नेतृत्वे प्रवर्तमानया रूफटॉप-सौर-ऊर्जा-अभियानेन, विशेषतः प्रधानमंत्री सूर्य घर मुफ्त बिजली योजना-योजनायाः अन्तर्गतं, लखनऊ राष्ट्रीय-स्तरे अग्रणी-स्थानं प्राप्तवान्।

उत्तर प्रदेश नवीन एवं नवीकरणीय ऊर्जा अभिकरण-संस्थायाः निदेशकः इंद्रजीत सिंह अवदत् यत् अस्याः योजनायाः अन्तर्गतं लखनऊ-नगरे अद्यपर्यन्तं ८७,००० अधिकाः रूफटॉप-सौर-उत्पादन-यन्त्राणि स्थापितानि, यत् देशस्य कस्यापि अपि जनपदस्य अपेक्षया अधिकतमम् अस्ति। केवलं १५ एप्रिल् पर्यन्तं ३,१३३ नूतन-संयन्त्राणि स्थापितानि, येन अस्य नगरस्य अग्रगण्यता अधिकं सुदृढा जाता।

विशेषज्ञाः वदन्ति यत् नगरीय-क्षेत्रेषु घरेलू-गैसस्य स्थाने इण्डक्शन-कुकटॉप-उपयोगः तथा विद्युत्-यानानां (इलेक्ट्रिक-वाहनानाम्) वर्धमान-प्रयोगः विद्युत्-उपभोगं वर्धयति। तेन सह उच्च-विद्युत्-शुल्क-नियन्त्रणेच्छा पर्यावरण-रक्षणे च जागरूकता अपि जनान् सौर-ऊर्जा-ग्रहणाय प्रेरयति।

रूफटॉप-सौर-प्रणाल्यः उपभोक्तृभ्यः दीर्घकालिकं आर्थिक-लाभं ददति तथा ऊर्जाक्षेत्रे आत्मनिर्भरत्वं जनयन्ति। केन्द्र-राज्य-सरकारयोः अनुदान-नीतिः (सब्सिडी), सरल-आवेदन-प्रक्रिया, वितरण-निगम-सम्बद्ध-एजेंसीनां च सहयोगः अस्य विकासे महत्त्वपूर्णं योगदानं करोति।

एषा लखनऊ-नगरस्य उपलब्धिः अन्येषां जनपदानां कृते प्रेरणा जाता। उत्तर प्रदेश-राज्यस्य अन्ये नगराः अपि सौर-स्थापने तीव्रतां दर्शयन्ति, येन राज्यं देशस्य प्रमुख-सौर-ऊर्जा-केंद्रत्वेन विकसितं भवति।

---------------

हिन्दुस्थान समाचार