Enter your Email Address to subscribe to our newsletters

लखनऊ-नगरम्, १८ अप्रैलमासः (हि.स.)। उत्तरप्रदेश-शिक्षा-सेवा-चयन-आयोगेन आयोजिता सहायक-आचार्य: (विज्ञापन-संख्या-५१) अन्तर्गतं १७ विषयाणां लिखिता पुनर्परीक्षा प्रदेशस्य ५३ परीक्षा-केन्द्रेषु सफलतापूर्वक सम्पन्ना। परीक्षा पूर्णतया शान्तिपूर्णा, नकलविहीना च निर्धारित-समये आयोजिताभवत्। अस्यां पुनर्परीक्षायां समग्रतः १९,७१८ अभ्यर्थिनः सहभागिनः अभवन्। तेषु ४१.३५ प्रतिशतं महिला-अभ्यर्थिनः तथा ५८ प्रतिशतं पुरुष-अभ्यर्थिनः उपस्थिति अभिलेखिता, या परीक्षायाः प्रति तेषां गाम्भीर्यं उत्साहं च दर्शयति।
एषा परीक्षा प्रदेशस्य षट् प्रमुख-जनपदेषु—आगरा, मेरठ, लखनऊ, प्रयागराज, गोरखपुर, वाराणसी—आयोजिता। प्रथम-पाली प्रातः ०९:३० वादनेतः ११:३० वादनपर्यन्तं तथा द्वितीय-पाली अपराह्णे ०२:३० वादनेतः ०४:३० वादनपर्यन्तं सम्पन्ना, यस्मिन् अभ्यर्थिनां व्यापकः सहभागः दृष्टः।
पुनर्परीक्षायां एशियन-कल्चर, म्यूजिक-तबला, शारीरिक-शिक्षा, उर्दू, आङ्ग्ल-भाषा, समाजशास्त्रम्, रसायनशास्त्रम्, शिक्षाशास्त्रम्, प्राणिशास्त्रम्, वनस्पतिशास्त्रम्, कृषि-अर्थशास्त्रम्, हिन्दी, विधिशास्त्रम्, पशुपालनं दुग्धोत्पादनं च, संगीत-गायनम्, दर्शनशास्त्रम् तथा मानवशास्त्रम् इत्येतेषां सहितानि समग्रतः १७ विषयाः समाविष्टाः।
परीक्षायाः पारदर्शिता-शुचिता सुनिश्चित्य आयोगे स्थापितात् एआई-इण्टिग्रेटेड-कण्ट्रोल-कमान्ड-रूमतः सर्वेषां केन्द्राणां निरीक्षणं कृतम्। आयोगस्य अध्यक्षः डॉ.प्रशान्त-कुमारः, सचिवः, परीक्षा-नियन्त्रकः, उपसचिवः च उपस्थिताः सन्तः एआई-कैमरा-द्वारा परीक्षार्थिनां क्रियाकलापान् निरन्तरं निरीक्षितवन्तः। एआई-आधारित-निरीक्षणं तथा कठोर-प्रशासनिक-व्यवस्थया एषा परीक्षा पारदर्शिता-निष्पक्षतयोः उत्कृष्टं उदाहरणं जातम्। आयोगेन स्वीकृता एषा तकनीकी-व्यवस्था भविष्य-परीक्षासु अपि आदर्शरूपेण दृश्यते।
लखनऊ-नगरस्य गोमतीनगर-स्थिते राजकीय-बालिका-इण्टर-कॉलेज-इत्यत्र प्रथम-पालीपूर्वं प्राचार्य-कक्षे वातानुकूलिते अग्नि-प्रज्वलनस्य सूचना प्राप्ता। तथापि प्रशासनस्य तत्परतया शीघ्रमेव अग्निः नियन्त्रणे आनिता, नोडल-अधिकारिणः आयोग-प्रेक्षकस्य च उपस्थितौ वैकल्पिक-व्यवस्थया परीक्षा-केन्द्रं सञ्चालितम्, तथा परीक्षा सकुशलं सम्पन्ना। प्रदेशस्य सर्वेषु परीक्षा-केन्द्रेषु परीक्षा अनुकरणविहीना, शुचितापूर्णा सुव्यवस्थितरीत्या च सम्पन्ना। अस्मिन् सम्बन्धित-जनपद-प्रशासनस्य अधिकारिणां सक्रिय-सहयोगः अपि दृष्टः।
हिन्दुस्थान समाचार / अंशु गुप्ता