मुख्यमंत्री आरके आश्रम मार्ग मेट्रो स्थानके चलति निर्माण कार्याणां कृतं निरीक्षणम्
नव दिल्ली, 18 अप्रैलमासः (हि.स.)। दिल्लीनगरस्य मुख्यमन्त्री रेखा गुप्ता अद्य मेट्रो-चतुर्थचरणस्य अन्तर्गतं आरके आश्रममार्ग मेट्रोस्थानके प्रवर्तमानानां निर्माणकार्याणां निरीक्षणं कृतवती। तया अस्मिन् अवसरे दिल्ली मेट्रो रेल निगम (डीएमआरसी) इत्यस्य
दिल्ली की मुख्यमंत्री रेखा गुप्ता आरके आश्रम मार्ग मेट्रो स्टेशन पर चल रहे निर्माण कार्यों का निरीक्षण करती


नव दिल्ली, 18 अप्रैलमासः (हि.स.)।

दिल्लीनगरस्य मुख्यमन्त्री रेखा गुप्ता अद्य मेट्रो-चतुर्थचरणस्य अन्तर्गतं आरके आश्रममार्ग मेट्रोस्थानके प्रवर्तमानानां निर्माणकार्याणां निरीक्षणं कृतवती। तया अस्मिन् अवसरे दिल्ली मेट्रो रेल निगम (डीएमआरसी) इत्यस्य कार्याणां विस्तृता समीक्षा अपि कृता।

मुख्यमन्त्री सामाजिकमाध्यमे ‘एक्स’ इत्यत्र लिखित्वा उक्तवती यत् मेट्रो दिल्लीनगरस्य जीवनरेखा अस्ति। प्रतिदिनं लक्षशः यात्रिकाः अस्याम् यात्रा कुर्वन्ति, अतः सर्वेषु कार्येषु गुणवत्ता, सुरक्षा तथा निर्धारितकालसीमायाः पालनं विशेषतया सुनिश्चितं क्रियते। तया डीएमआरसी-अधिकाऱिभिः सह प्रगतिस्थितिः, निर्माणस्य गुणवत्ता तथा यात्रिकसुविधानां उन्नयनविषये विस्तरेण चर्चा कृता। अधिकाऱिणः प्रति निर्देशाः अपि दत्ताः यत् कार्ये गतिः पारदर्शिता च अवश्यं स्थाप्येते तथा यात्रिकाणां काचिदपि असुविधा न भवेत्।

मुख्यमन्त्री उक्तवती यत् दिल्लीनगरस्य वर्धमानावश्यकतानुसारं दृढा आधुनिकसंयोजनव्यवस्था निर्मातुं अस्माकं प्रमुखा प्राथमिकता अस्ति। विकसितदिल्ली-निर्माणे एतत् एकं महत्त्वपूर्णं चरणम् अस्ति।

उल्लेखनीयम् यत् दिल्लीसर्वकारेण मेट्रो-चतुर्थचरणस्य त्रयाणां नूतन-मार्गाणां (लाजपत नगर-साकेत, इन्द्रलोक-इन्द्रप्रस्थ, रिठाला-कुण्डली) कृते ३,३८६.१८ कोटिरूप्यकाणां निधिः प्रदत्तः। एतेषां परियोजनानां कुलानुमानितव्ययः प्रायः १४,६३०.८० कोटिरूप्यकाणि अस्ति, तथा च आगामिषु चतुर्षु वर्षेषु ४७.२२ किलोमीटर-दीर्घं जालं पूर्णं कर्तुं लक्ष्यं निर्धारितम्। एतेभ्यः मार्गेभ्यः उत्तरमध्यदक्षिणदिल्लीक्षेत्राणां मध्ये उत्तमा संयोजकता भविष्यति।

---------------

हिन्दुस्थान समाचार