ऐतिहासिक गुरुद्वारा पांडुलिपिभ्यो निर्माणमाधृत्य निर्देशो दत्तः
कटिहारः, 18 अप्रैलमासः (हि.स.)। जिलाधिकारी आशुतोष द्विवेदी शनिवासरे बरारी प्रखंड-क्षेत्रे जनगणना-प्रशिक्षण-कार्यक्रमस्य तथा ऐतिहासिक-गुरुद्वारस्य निरीक्षणं कृतवान्। अस्मिन् सन्दर्भे तेन जनगणना-कार्यस्य शीघ्रतां वर्धयितुं तथा गुरुद्वारस्य ऐतिहासिक
गुरुद्वारा


कटिहारः, 18 अप्रैलमासः (हि.स.)।

जिलाधिकारी आशुतोष द्विवेदी शनिवासरे बरारी प्रखंड-क्षेत्रे जनगणना-प्रशिक्षण-कार्यक्रमस्य तथा ऐतिहासिक-गुरुद्वारस्य निरीक्षणं कृतवान्। अस्मिन् सन्दर्भे तेन जनगणना-कार्यस्य शीघ्रतां वर्धयितुं तथा गुरुद्वारस्य ऐतिहासिक-धरोहराणां संरक्षणं कर्तुं विशेषः बलः दत्तः।

जिलाधिकारी जागेश्वर उच्च विद्यालय-स्थले प्रचलमानं भारत जनगणना 2027 अन्तर्गतं मकान-सूचीकरणं परिवार-गणना-प्रशिक्षणं च निरीक्षितवान्। पीपीटी-माध्यमेन पर्यवेक्षकान् प्रगणकान् च डिजिटल-अनुप्रयोगस्य साहाय्येन कथं गृह-सूचीकरणं परिवार-गणना च क्रियते इति शिक्षितम्। अस्मिन् प्रशिक्षणे बरारी-प्रखण्डस्य सर्वे सहायक-चार्ज-पदाधिकारी डेटा-एण्ट्री-ऑपरेटराः च सहभागी भवन्ति। अस्य निरीक्षणं जिला-सांख्यिकी-पदाधिकारी अपर-जिला-जनगणना-पदाधिकारी च कुर्वन्ति। जिलाधिकारी १७ एप्रिल् आरभ्य स्वगणना-कार्यस्य विषये अपि आवश्यक-निर्देशान् अदात्।

अनन्तरं सः श्री गुरु तेग बहादुर गुरुद्वारा-स्थानं गतवान्। तत्र तेन गुरु ग्रंथ साहिब-सम्बद्धाः पाण्डुलिपयः सूक्ष्मतया अवलोकिताः। तत्र उपस्थितेन सूचक-व्यक्तिना प्रत्येक-पाण्डुलिपेः विषये विस्तरेण विवरणं प्रदत्तम्।

जिलाधिकारी आदेशं दत्तवान् यत् अस्य ऐतिहासिक-गुरुद्वारस्य सर्वाः महत्त्वपूर्णाः पाण्डुलिपयः प्रतिलिपि-रूपेण कटिहार-समाहरणालये धरोहररूपेण स्थापनीयाः, यथा सामान्य-जनाः अपि तासां विषये ज्ञानं प्राप्तुं शक्नुयुः।

---------------

हिन्दुस्थान समाचार