महिलाआरक्षणविधेयके चित्तौड़गढ-सांसदस्य जोशी-महोदयस्य महद्वक्तव्यम्, काङ्ग्रेस-दलं महिलाविरोधि
चित्तौड़गढ़म्, 18 अप्रैलमासः (हि.स.)। भाजपादलस्य पूर्वप्रदेशाध्यक्षः चित्तौड़गढ-सांसदश्च सीपी जोशी महोदयः लोकसभायां महिलाआरक्षणसम्बद्धे विषये काङ्ग्रेस-विपक्षीदलानां च उपरि तीक्ष्णां प्रतिक्रियाम् व्यक्तयन् अवदत् यत् काङ्ग्रेस-दलस्य रीतिः, नीतिः, मु
चित्तौड़ सांसद सीपी जोशी।


चित्तौड़गढ़म्, 18 अप्रैलमासः (हि.स.)। भाजपादलस्य पूर्वप्रदेशाध्यक्षः चित्तौड़गढ-सांसदश्च सीपी जोशी महोदयः लोकसभायां महिलाआरक्षणसम्बद्धे विषये काङ्ग्रेस-विपक्षीदलानां च उपरि तीक्ष्णां प्रतिक्रियाम् व्यक्तयन् अवदत् यत् काङ्ग्रेस-दलस्य रीतिः, नीतिः, मुखं च सर्वदा महिलाविरोधि एव अभवत्। सः उक्तवान् यत् यदा देशे महिलानां सशक्तिकरणाय ऐतिहासिकपदक्षेपस्य अवसरः प्राप्तः, तदा काङ्ग्रेस-विपक्षीदलैः तस्य समर्थनं न कृत्वा देशस्य प्रायः ५० प्रतिशतं महिलाजनसंख्यायाः आकाङ्क्षाभिः सह अन्यायः कृतः।

​सांसदः सीपी जोशी महोदयः शुक्रवासरे विलम्बरात्रौ वक्तव्यं निर्गत्य अवदत् यत् केन्द्रसर्वकारेण आनीतः 'नारी शक्ति वंदन अधिनियमः' देशस्य महिलाभ्यः राजनीतिषु समानसहभागितां प्रदातुं दिशि एकः ऐतिहासिकः दूरगामी च निर्णयः वर्तते। अस्य नियमस्य माध्यमेन संसदि विधानसभासु च महिलाभ्यः ३३ प्रतिशतं (३३%) आरक्षणं प्रदातुं प्रावधानं कृतं, येन देशस्य महिलाः निर्णयप्रक्रियासु अधिकां सक्रियां भूमिकां निर्वोढुं शक्नुयुः राष्ट्रनिर्माणं च सुदृढं कर्तुं शक्नुयुः। सः अवदत् यत् प्रधानमन्त्रिणः नरेन्द्र मोदिनः नेतृत्वे केन्द्रसर्वकारेण महिलानां सम्मान-सुरक्षा-सशक्तिकरणेभ्यः अनेके ऐतिहासिकाः निर्णयाः स्वीकृताः। अद्य देशस्य महिलाः प्रत्येकस्मिन् क्षेत्रे अग्रे सरन्ति, सर्वकारस्य नीतीनां लाभश्च ताभ्यः साक्षात् प्राप्यते। ईदृशे समये महिलासशक्तिकरणसम्बद्धस्य महत्त्वपूर्णविधेयकस्य विरोधः काङ्ग्रेस-विपक्षयोः सङ्कुचितमानसिकतां दर्शयति। सांसदः सीपी जोशी उक्तवान् यत् काङ्ग्रेस-दलेन सर्वदा महिलाधिकाराणां विषये केवलं राजनैतिकप्रलापः कृतः, परं यदा वास्तविकनिर्णयस्य समयः आगतः तदा तैः विकासस्य अस्याः ऐतिहासिकपहलयाः विरोधः कृतः। अनेन स्पष्टं भवति यत् काङ्ग्रेसस्य वास्तविकं मुखं महिलाविरोधि अस्ति, सा च महिलानां सशक्तिकरणं प्रति गम्भीरा नास्ति।

​सांसदः सीपी जोशी महोदयः राजस्थानस्य पूर्वतनकाङ्ग्रेससर्वकारस्य समये महिलानां स्थितेः विधिव्यवस्थायाश्च उल्लेखं कुर्वन् अवदत् यत् काङ्ग्रेससर्वकारस्य शासने कन्याः असुरक्षिताः अभवन्। राजस्थानं महिलानां विरुद्धम् अपराधे निरन्तरं उच्चराज्येषु अभवत्। अलवर-जोधपुर-भीलवाड़ा-उदयपुरक्षेत्रेषु घटिताभिः घटनाभिः प्रदेशः लज्जितः जातः। प्रत्येकं वारं सर्वकारेण केवलम् अन्वेषणस्य वचनानि दत्तानि, अपराधिनः च निर्भयाः अभवन्। महिलासुरक्षायाः नाम्ना घोषणाः तु बह्व्यः अभवन्, परं 'निर्भया-कोषस्य' उपयोगः, महिला-गश्ती-दलम्, 'सीसीटीव्ही' यन्त्राणि च - धरातले कार्याणि अपूर्णानि एव आसन्। निर्वाचनात् पूर्वं प्रियंका गान्धी महोदयया 'लड़की हूँ लड़ सकती हूँ' (पुत्री अस्मि, योद्धुं शक्नोमि) इति उद्घोषः दत्तः, परं राजस्थानस्य पुत्रीणां कृते सः उद्घोषः कुत्र गतः?

​सांसदः सीपी जोशी महोदयः अवदत् यत् देशस्य महिलाः अद्य जागरूकाः सन्ति, ताः च सम्यक् जानन्ति यत् कः तासाम् अधिकाराणां सम्मानस्य च कृते कार्यं करोति। सः विश्वासं प्रकटितवान् यत् आगामिसमये जनतायाः न्यायालये काङ्ग्रेस-विपक्षीदलेभ्यः अस्य प्रत्युत्तरं निश्चितं प्राप्स्यते। जोशी महोदयः उक्तवान् यत् भाजपा-सर्वकारः महिलाभ्यः समानमवसरं प्रदातुं, तासाम् सुरक्षां सुनिश्चेतुं, ताः आत्मनिर्भरं कर्तुं च निरन्तरं कार्यं करोति। 'नारी शक्ति वंदन अधिनियमस्य' माध्यमेन देशस्य राजनीतिषु महिलानां सहभागिता नेतृत्वक्षमता च नवीनां दिशां प्राप्स्यति, या भारतस्य उज्ज्वलभविष्याय सुदृढा आधारशिला सिद्धा भविष्यति।

---------------

हिन्दुस्थान समाचार