Enter your Email Address to subscribe to our newsletters

लखनऊ-नगरम्, १८ अप्रैलमासः (हि.स.)। संविधान-निर्मातुः डॉ.भीमराव-अम्बेडकरस्य जयन्ती-अवसरे शनिवासरे “सम्मान-अभियानम् २०२६” इत्यस्य अन्तर्गतं लखनऊ-पूर्व-विधानसभायाः दत्त-भवन-प्राङ्गणे संगोष्ठी-कार्यक्रमः आयोजितः।
अस्मिन् अवसरे विधायकः ओ.पी.श्रीवास्तवः उक्तवान् यत् १४ अप्रैलमासः केवलं तिथि-विशेषः न, अपि तु सामाजिक-न्यायस्य, समतायाः अधिकार-चेतनायाः च प्रतीकः अस्ति। सः अवदत्— “डॉ.अम्बेडकरस्य जीवनं अस्मान् शिक्षयति यत् अधिकाराणां रक्षणं तर्हि एव सम्भवति, यदा वयं स्वकर्तव्यानां पूर्णनिष्ठया पालनं कुर्मः। एषा एव तेषां प्रति सच्ची श्रद्धाञ्जलिः अस्ति।”
श्रीवास्तवेन स्वसम्बोधने प्रख्यात-जनकवे: सफदर हाशमी इत्यस्य पङ्क्तयः उद्धृत्य युवानः प्रेरिताः—“क ख ग घ को पहचानो, अलिफ़ को पढ़ना सीखो, अ आ इ ई को हथियार, बनाकर लड़ना सीखो!”सः अवदत् यत् बाबा-साहेबेन यत् समतामूलक-समाजस्य परिकल्पना कृता, तस्य साकारार्थं अद्य केन्द्रे नरेन्द्र-मोदी-नेतृत्वे तथा उत्तर-प्रदेशे योगी-आदित्यनाथ-नेतृत्वे सर्वकारः निरन्तरं कार्यं करोति। योजनानां लाभः समाजस्य अन्तिम-पङ्क्तौ स्थितजनपर्यन्तं यत् गच्छति, तत् एव वास्तविकः सामाजिक-न्यायः अस्ति।
अग्रे सः युवानः आह्वयत् यत् शिक्षा-सङ्घर्ष-संकल्पमार्गेण एव बाबा-साहेबस्य विचारा: सुदृढीकर्तुं शक्यन्ते। समाजे विद्यमानं भेदभावम् असमानतां च दूरीकर्तुं सर्वैः नागरिकैः जागरूका: भवितव्या:।
भाजपा-नेता नीरज-सिंहः संघटनस्य एकतायाः सामाजिक-समरसतायाः च सुदृढीकरणे बलम् अदात्। सः अवदत् यत् बाबा-साहेबस्य विचाराः अद्यापि राष्ट्रनिर्माणस्य आधारशिला: सन्ति, तेषां आदर्शानां पालनमेव समरस-समाज-निर्माणस्य मार्गः अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता