Enter your Email Address to subscribe to our newsletters

पौड़ी गढ़वालम्, 18 अप्रैलमासः (हि.स.)।
चारधाम यात्रा सुव्यवस्थित-सुरक्षित-यात्रीहितकरा च भवतु इति उद्देश्येन पुष्कर सिंह धामी-महाभागस्य निर्देशानुसारं जिलाधिकारी स्वाति एस. भदौरिया श्रीनगर-स्थिते तहसील-सभागारे रेखीय-विभाग-अधिकारिभिः सह विस्तृत-समीक्षा-सभां कृतवती। सभाया अनन्तरं सा स्वयं यात्रा-मार्गेषु गत्वा व्यवस्थाः स्थलीय-रूपेण निरीक्षितवती, सर्वान् विभागान् च समयबद्धतया समन्वयेन आवश्यक-व्यवस्थाः सुनिश्चितुं निर्देशितवती। तया स्पष्टतया उक्तं यत् यात्रिकाणां सुविधा, सुरक्षा, सुगमता च प्रशासनस्य सर्वोच्च-प्राथमिकता अस्ति।
सभायां जिलाधिकारिणी यात्रा-मार्गेषु संकेत-पट्टिकाः (साइनेज), शौचालयाः, पेयजल-व्यवस्था च सम्यक् स्थापनीयाः इति आदेशं दत्तवती। यात्रिकेभ्यः मूल्यनुरूपं गुणवत्तायुक्तं भोजनं प्रदातुं खाद्य-अभिहित-अधिकारी नियमित-निरीक्षणं करोतु इति अपि निर्दिष्टम्। होटल-ढाबेषु मूल्य-सूची-प्रदर्शनं अनिवार्यं कर्तुं पर्यटन-विभागः अपि निर्देशितः।
सुरक्षा-सुदृढीकरणार्थं कीर्तिनगर-पुलात् सिरोबगड्-प्रदेशपर्यन्तं मार्गः त्रिषु क्षेत्रेषु विभक्तः, प्रत्येकस्मिन् क्षेत्रे त्रयः स्थायी-त्रयः अस्थायी च चौक्यः स्थापनीयाः इति आदेशः दत्तः। यातायात-व्यवस्था सुचारु-रूपेण सञ्चाल्यताम् इति कृते मुख्य-पार्किङ्ग-स्थलैः सह अतिरिक्त-पॉकेट-पार्किङ्ग-स्थानानि अपि चिन्हितानि कर्तुं निर्देशः दत्तः।
उपजिलाधिकारी नूपुर वर्मा अवदत् यत् यात्रा-सञ्चालनार्थं तहसील-स्तरे नियन्त्रण-कक्षः, कलियासौड्-प्रदेशे पोर्टा-केबिन् च स्थापितः। आपत्कालीन-स्थितौ होल्डिङ्ग-क्षेत्रेषु ट्रान्जिट-कैम्पेषु च विद्युत्, पेयजल, शौचालयादि-सुविधाः सुदृढाः स्युः इति जिलाधिकारिण्या निर्देशितम्।
स्वास्थ्य-व्यवस्थासु फरासू, धारीदेवी, भट्टीसेरा-प्रदेशेषु चिकित्सा-सहाय-केन्द्रेषु वैद्यकानां नियत-रोस्टर-अनुसारं नियुक्तिः, जीवन-रक्षक-औषधानां उपलब्धता च सुनिश्चितीकरणीयम् इति आदेशः दत्तः। आधार-चिकित्सालये अतिरिक्त-चिकित्सक-नियोजनम् अपि निर्दिष्टम्।
स्थलीय-निरीक्षणकाले जिलाधिकारिणी कीर्तिनगर-पुलात् सिरोबगड्-प्रदेशपर्यन्तं व्यवस्थाः परीक्षितवती। कीर्तिनगर-पुलस्य समीपे स्थिते सेल्फी-प्वाइण्ट्-स्थले सुरक्षा-रेलिङ्ग-स्थापनम्, उफल्डा-प्रदेशे हस्त-पम्पस्य सुचारु-चालनम्, मार्ग-किनारेषु नालीनां नियमित-शोधनम् इत्यादीनि आदेशितानि। मार्ग-परिसरेषु स्वच्छता-पालनं, कूडा-संग्रहण-केन्द्राणां सुव्यवस्था च विशेषतया निर्देशिता।
एनआईटी-मैदान-स्थिते यात्रि-विश्राम-स्थले पेयजल-शौचालय-विद्युत्-व्यवस्थाः निरीक्षिताः, मार्गस्य शीघ्र-संशोधनं च आदेशितम्। आवास-विकास-मैदाने निजी-यानानां निष्कासनम्, जल-टङ्की-क्षमताया वर्धनम् अपि निर्देशितम्। जल-संस्थानस्य टोल-फ्री-संख्या परीक्षणेन शिकायत-निवारण-प्रणाली अपि परीक्षिता।
कलियासौड्-प्रदेशे पोर्टा-केबिन्-समीपे स्थितं मलबं त्रिदिनेषु अपसार्य अस्थायी-पार्किङ्ग-निर्माणं कर्तुं आदेशः दत्तः। फरासू-स्लाइडिङ्ग-क्षेत्रे मलब-अपसारणं मार्ग-विस्तार-कार्यं च शीघ्रतया कर्तुं निर्दिष्टम्।
पुलिस-नियन्त्रण-स्थानेषु यात्रिकेभ्यः पेयजल-उपलब्ध्यर्थं वाटर-एटीएम अथवा टङ्कर-सहित-स्थापनं जल-संस्थानाय निर्दिष्टम्। अवैध-पार्किङ्ग-नियन्त्रणार्थं लघु-पार्किङ्ग-स्थल-चिन्हनं अपि आदेशितम्।
निरीक्षणानन्तरं जिलाधिकारिणी धारी देवी मंदिर गत्वा पूजाम् अर्चनां च कृतवती, सर्वेषां कुशलं प्रार्थितवती च। मन्दिर-समीपे मार्ग-सुरक्षा-प्राचीर-निर्माणं शीघ्रं आरभ्यताम् इति अपि निर्देशितम्। तया पर्यटकेभ्यः सह संवादः कृत्वा व्यवस्थासु अभिप्रायाः अपि संगृहीताः।
अस्मिन् निरीक्षणे उपजिलाधिकारी नूपुर-वर्मा, पुलिस-उपाधीक्षकः तुषार-बोरा, तहसीलदारः दीपक-भण्डारी, सहायक-नगर-आयुक्तः रविराज-भंगारी, गायत्री-बिष्टा, थानाध्यक्षः कुलदीप-सिंहः, एई-जल-संस्थान-अधिकारी अर्पित-मित्तलः इत्यादयः अन्ये विभागीय-अधिकारिणः अपि उपस्थिताः आसन्।
हिन्दुस्थान समाचार