मदिराबंधिना निर्णय सामाजिक सुधारः अथ नारी सुरक्षायाः दिशि मीलप्रस्तरः सज्जीकरिष्यते : उमेशकुशवाहा
पटना, 18 अप्रैलमासः (हि.स.)। जनता दल यूनाइटेड-पक्षस्य प्रदेश-अध्यक्षः उमेश सिंह कुशवाहा शनिवासरे प्रकाशित-वक्तव्ये अवदत् यत् वर्षे २०१६ तमे नीतीश कुमार-महाभागेन कृतः मद्य-निषेध-निर्णयः साहसिकः ऐतिहासिकश्च आसीत्, यः सामाजिक-सुधारस्य तथा नार
जदयू पदेश अधयक्ष उमेश कुशवाहा


पटना, 18 अप्रैलमासः (हि.स.)।

जनता दल यूनाइटेड-पक्षस्य प्रदेश-अध्यक्षः उमेश सिंह कुशवाहा शनिवासरे प्रकाशित-वक्तव्ये अवदत् यत् वर्षे २०१६ तमे नीतीश कुमार-महाभागेन कृतः मद्य-निषेध-निर्णयः साहसिकः ऐतिहासिकश्च आसीत्, यः सामाजिक-सुधारस्य तथा नारी-सुरक्षायाः दृष्ट्या महत्वपूर्णः मील-स्तम्भः सिद्धः।

तेन उक्तं यत् गत-दशके अस्य निर्णयस्य प्रभावेण व्यापकः सामाजिक-परिवर्तनस्य दृढा नीव स्थापिता, विविध-मानकेषु तस्य दूरगामी-ठोस-सकारात्मक-परिणामाः स्पष्टतया दृश्यन्ते।

प्रदेश-अध्यक्षेन उक्तं यत् बिहार-राज्ये पूर्ण-मद्यनिषेधस्य सफल-क्रियान्वयनस्य अध्ययनार्थं वर्षे २०१८ तमे राजस्थान-राज्यस्य तत्कालीन-सरकारेण प्रतिनिधि-मण्डलम् अपि बिहारं गतवत्। अपि च नरेंद्र मोदी अपि विभिन्न-जनमञ्चेषु अस्य निर्णयस्य प्रशंसां कृतवान्।

सर्वेक्षणानुसारं मद्यनिषेधानन्तरं राज्ये प्रायः १.८२ कोटि-जनाः मद्यपानं त्यक्तवन्तः। सर्वेक्षणे ९१ प्रतिशत-जनाः अभिमन्यन्ते यत् गृह-हिंसा-प्रकरणेषु न्यूनता जाता। अन्येन सर्वेक्षणेन ८७ प्रतिशत-उत्तरदातृभिः उक्तं यत् पारिवारिक-आयः वर्धिता, ७२ प्रतिशत-जनाः उक्तवन्तः यत् वर्धिता आयः बालकानां शिक्षायां विनियुज्यते।

तथा “ड्रिंक् एण्ड् ड्राइव्”-जनित-सडक-दुर्घटनासु ५१.४ प्रतिशत-पर्यन्तं न्यूनता दृष्टा, ८० प्रतिशत-जनाः मन्यन्ते यत् महिलाः अधुना निर्भयतया बाजारं गन्तुं शक्नुवन्ति। अतिरिक्ततया यौन-हिंसा-प्रकरणेषु अपि ३.६ प्रतिशत-पर्यन्तं न्यूनता अभवत्।

अन्ते उमेश सिंह कुशवाहा उक्तवान् यत् मद्यनिषेधेन न केवलं सामाजिक-वातावरणे सुधारः जातः, अपि तु युवानां स्वास्थ्ये अपि सकारात्मकः प्रभावः दृश्यते, यः सशक्त-समृद्ध-समाज-निर्माणस्य दिशि महत्वपूर्णः संकेतः अस्ति।

---------------

हिन्दुस्थान समाचार