मोहनलाल-सुखाड़िया-विश्वविद्यालये अन्ताराष्ट्रिय-अनुसन्धान-पत्रिका ‘शोध-उन्नयन’स्य विमोचनम्
उदयपुर-नगरम्, १८ अप्रैलमासः (हि.स.)। मोहनलाल-सुखाड़िया-विश्वविद्यालयस्य (एमएलएसयू) उदयपुरस्य कुलगुरुणा प्रो.बी.पी. सारस्वतेन शुक्रवासरे अन्ताराष्ट्रिय-अनुसन्धान-पत्रिकायाः ‘शोध-उन्नयन’ इत्यस्य द्वितीयाङ्कस्य चतुर्थ-संस्करणस्य औपचारिकं विमोचनं कृतम्
एमएलएसयू में इंटरनेशनल रिसर्च जर्नल ‘शोध उन्नयन’ का विमोचन


उदयपुर-नगरम्, १८ अप्रैलमासः (हि.स.)। मोहनलाल-सुखाड़िया-विश्वविद्यालयस्य (एमएलएसयू) उदयपुरस्य कुलगुरुणा प्रो.बी.पी. सारस्वतेन शुक्रवासरे अन्ताराष्ट्रिय-अनुसन्धान-पत्रिकायाः ‘शोध-उन्नयन’ इत्यस्य द्वितीयाङ्कस्य चतुर्थ-संस्करणस्य औपचारिकं विमोचनं कृतम्। एषा पत्रिका राजस्थान-इंस्टीट्यूट-ऑफ-सोशल-साइंस-रिसर्च, जयपुर इत्यनेन प्रकाशित्यते।

विमोचन-कार्यक्रमः विश्वविद्यालयस्य प्रशासनिक-भवनस्थिते उपकुलपति-कोष्ठके (वी.सी.-चैम्बरे) आयोजितः अभवत्। अस्मिन् अवसरे संस्थानस्य अध्यक्षेन तथा ‘शोध-उन्नयन’ इत्यस्य प्रधान-सम्पादकेन डॉ.शैलेंद्र-मौर्येण उक्तं यत् अस्य पत्रिकायाः उद्देश्यं विविध-विषयेषु क्रियमाणानां नवीन-अनुसन्धान-कार्याणां सुदृढं मंचं प्रदातुं अस्ति, येन अनुसन्धानकर्तृभ्यः तथा शिक्षाविद्भ्यः स्वविचाराणां अनुसन्धान-निष्कर्षाणां च सहभागीकरणस्य अवसरः लभ्यते।

कुलगुरुणा प्रो.बी.पी.सारस्वतेन पत्रिकायाः प्रकाशनस्य प्रशंसा कृता, स च अवदत् यत् एतादृशानि अनुसन्धान-प्रकाशनानि अकादमिक-परिवेशस्य सुदृढीकरणे तथा अनुसन्धान-संस्कृतेः प्रोत्साहने महत्त्वपूर्णां भूमिकां निर्वहन्ति।

कार्यक्रमे एमएलएसयू-विश्वविद्यालयस्य उपकुलसचिवः मुकेश-बार्बर:, संगणक-केन्द्रस्य निदेशकः अविनाश-पवार:, विज्ञान-महाविद्यालयस्य अधिष्ठाता प्रो. सी.पी.जैन, संस्कृत-विभागाध्यक्षः प्रो.नीरज-शर्मा, विधि-महाविद्यालयस्य अधिष्ठाता प्रो.आनंद-पालीवालः तथा प्रवीण-सिंह-सारंगदेवोत इत्यादयः बहवः शिक्षाविदः उपस्थिताः आसन्। कार्यक्रमे पत्रिकायाः विषयवस्तुनः तथा अनुसन्धान-योगदानानां विषये अपि विस्तरेण चर्चा कृता।

हिन्दुस्थान समाचार / अंशु गुप्ता