Enter your Email Address to subscribe to our newsletters


मुरादाबाद-नगरम्, १९ अप्रैलमासः (हि.स.)। पीतल-नगरी मुरादाबाद-नगरे रविवासरे भगवत: परशुरामस्य जयन्ती सोत्साहेन आचरिता। अस्मिन् अवसरे अखिल-भारतीय-ब्राह्मण-महासभाया: महानगर-विभागस्य तत्वावधानेन मनोहरप्रदर्शिन्या सहितं भव्या विशाला द्वाविंशतितमी शोभायात्रा निष्कासिता, तथा हवन-पूजनम् अपि कृतम्। मार्गे शोभायात्रायाः पुष्प-वृष्ट्या आरार्तिक्या च सह हार्दिकं स्वागतं कृतम्।
मोहल्ला बाजीगरान-स्थितया शरबती-धर्मशालया शोभायात्रा आरब्धा। अस्याः शुभारम्भः भाजपा-पश्चिम-क्षेत्रस्य क्षेत्रीय-महामन्त्रिणा हरिओम-शर्मणा, नगर-विधायक-रितेश-गुप्तेन, अखिल-भारतीय-ब्राह्मण-महासभाया राष्ट्रीय-अध्यक्षेन डॉ. प्रदीप-शर्मणा, गोपाल-मिश्रेण, श्याम-बिहारी-शर्मणा, रोहताश-शर्मणा, सत्येन्द्र-मिश्रेण च कृतः। नारिकेल-भेदनम्, भगवान् परशुरामस्य आरार्तिकी, माल्यार्पणं च कृत्वा कार्यक्रमः आरब्धः।
शोभायात्रायाः अग्रगामित्वं अनिल-कुमार-शर्मा, सुनील-कुमार-शर्मा, सचिन-शंखधार, ऊषा-शर्मा, ऋचा-शर्मा, अमित-शर्मा-राजू, प्रणवीर-शर्मा इत्यादिभिः कृतम्। शोभायात्रायां अग्रे ध्वज-पट्टिका आसीत्, तया सह ढोल-वादकाः अपि गच्छन्तः आसन्। गणेश-भगवान्, भगवान् परशुरामः तथा अन्ये विविध-देव-देवताः मनोहर-प्रदर्शिन्य: अपि शोभायात्रायां समाविष्टाः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता