Enter your Email Address to subscribe to our newsletters

रायपुरम् 19 अप्रैलमासः (हि.स.)।
लोकसभायां महिलारक्षण विधेयकस्य अपारितत्वानन्तरं भारतीय जनतादलम् इदानीं अस्य विषयस्य सम्बन्धे मार्गेषु अपि आन्दोलनं कर्तुं सज्जा भवति। कांग्रेस विरुद्धं देशव्यापिविरोधप्रदर्शनस्य रणनीतिः अद्य रविवासरे रायपुर स्थिते कुशाभाऊ ठाकरे परिसरे आयोजितायां पत्रकारसम्मेलने उद्घोषिता भविष्यति।
अद्य मध्याह्ने १२ वादने मुख्यमन्त्री विष्णुदेव साय तथा भाजपायाः राष्ट्रियमहामन्त्री अरुण सिंह संयुक्तं पत्रकारसम्मेलनं करिष्यतः। श्वः रायपुरे भाजपायाः महिला जनआक्रोश पदयात्रा आयोजिता भविष्यति, यस्याः आरम्भः अपराह्णे ३ वादने इनडोर स्टेडियमतः भविष्यति तथा सा सुभाष स्टेडियमपर्यन्तं गत्वा सम्मेलनसमापनं करिष्यति।
एतदतिरिक्तं २०–२१ एप्रिलदिनयोः प्रदेशस्य सर्वत्र महिला पदयात्राः, २३–२४ एप्रिलदिनयोः च जनआक्रोश महिला सम्मेलनानि आयोजितानि भविष्यन्ति।
उल्लेखनीयम् यत् लोकसभायां महिला आरक्षणसम्बद्धः संविधानस्य १३१तमः संशोधनविधेयकः पारितः न अभवत्। अस्य पक्षे २९८ मतानि प्राप्तानि, विरोधे तु २३० सांसदैः मतदानं कृतम्। अस्य पारणार्थं ३५२ मतानाम् आवश्यकता आसीत्। अस्मिन् विधेयके लोकसभायाः आसनसंख्या ५४३तः ८१६ पर्यन्तं वर्धयितुं तथा महिलाभ्यः ३३ प्रतिशतम् आरक्षणं दातुं प्रावधानम् आसीत्।
हिन्दुस्थान समाचार