बंगालनिर्वाचनं प्रथमचरणात्प्राक् पुलिसदलं निर्वाचनायोगस्य संचेतना, प्रातिकूल्ये तत्कालं कार्यवाही
कोलकाता, 19 अप्रैलमासः (हि. स.)।पश्चिम बंगाल विधानसभानिर्वाचनस्य प्रथमचरणस्य मतदानात् पूर्वं निर्वाचनआयोगेन राज्यपुलिसायै कठोरनिर्देशाः प्रदत्ताः। राज्यस्य मुख्यनिर्वाचनाधिकारी मनोज कुमार अग्रवाल उक्तवान् यत् मतदानदिने कस्यापि प्रकारस्य अशान्तिः न
मुख्य चुनाव अधिकारी मनोज अग्रवाल


कोलकाता, 19 अप्रैलमासः (हि. स.)।पश्चिम बंगाल विधानसभानिर्वाचनस्य प्रथमचरणस्य मतदानात् पूर्वं निर्वाचनआयोगेन राज्यपुलिसायै कठोरनिर्देशाः प्रदत्ताः। राज्यस्य मुख्यनिर्वाचनाधिकारी मनोज कुमार अग्रवाल उक्तवान् यत् मतदानदिने कस्यापि प्रकारस्य अशान्तिः न सह्यते। यदि कुत्रापि अप्रियघटना भवति तर्हि तत्क्षणमेव कार्यवाही कर्तव्या।

मुख्यनिर्वाचनाधिकारी संचेतनां दत्त्वा उक्तवान् यत् स्थितिनियन्त्रणे यदि कस्यचित् प्रमादः दृश्यते तर्हि सम्बन्धितस्य थानाध्यक्षस्य निलम्बनम् अपि कर्तुं शक्यते। सः उक्तवान् यत् मतदानदिने कस्यचित् क्षेत्रात् शस्त्राणि बाणाः वा विस्फोटकद्रव्याणि (बॉम्ब) यदि प्राप्यन्ते तर्हि सम्बन्धितस्य थानप्रभारीणः अधिकारीणः तत्क्षणं उपायाः करणीयाः, अन्यथा आयोगः कठोरां कार्यवाहीं करिष्यति।

सभायां सः एतदपि अपृच्छत् यत् गतविधानसभानिर्वाचनकाले हिंसाअशान्त्याः आरोपितानां जनानां अधुना पर्यन्तं ग्रहणं कुतः न अभवत्। तेन जिलापुलिसाधिकारिभ्यः निर्देशः दत्तः यत् एतेषां अपराधिनां परिचयः कृत्वा तेषु विशेषनिग्रहः क्रियते, येषां विरुद्धं पूर्वमेव हिंसासम्बद्धाः अभियोगाः सन्ति, येन ते अस्मिन् निर्वाचनकाले पुनः वातावरणं दूषयितुं न शक्नुवन्ति।

आयोगेन स्पष्टं कृतम् यत् अस्मिन् वारे स्वच्छनिष्पक्षशान्तिपूर्णमतदानस्य सुनिश्चित्यर्थं विशेषसतर्कता अवलम्बिता अस्ति। राज्ये प्रथमचरणस्य मतदानं एप्रिलमासस्य २३ दिनाङ्के भविष्यति, अस्य कृते अधुना केवलं पञ्चदिनानि अवशिष्टानि सन्ति।

षोडश जिल्लानां पुलिसअधीक्षकानां पुलिसआयुक्तानां च प्रति शनिवासरस्य रात्रौ प्रेषितेषु निर्देशेषु मनोज कुमार अग्रवालः उक्तवान् यत् निर्वाचनकाले शान्तिरक्षणे पुलिसस्य भूमिका अत्यन्तं महत्त्वपूर्णा भविष्यति। ज्ञायते यत् प्रथमचरणमतदानस्य निरीक्षणार्थं चत्वारिंशत्सहस्राधिकाः राज्यपुलिसकर्मिणः नियुक्ताः सन्ति।

हिन्दुस्थान समाचार