Enter your Email Address to subscribe to our newsletters

फर्रुखाबाद-जनपदः, १९ अप्रैलमासः (हि.स.)। उत्तरप्रदेशस्य फर्रुखाबाद-जनपदस्य जनदपाधिकारी आशुतोष-कुमार-द्विवेदी रविवासरे कलेक्ट्रेट-सभागारात् सोमनाथ-स्वाभिमान-पर्व-यात्रायै दश-यात्रिणां दलं विधिवत् मन्त्रोच्चारणेन सह माल्यार्पणं कृत्वा वाहनैः लखनऊ-नगरं प्रति प्रस्थितवान्। अस्मिन् अवसरे वातावरणं श्रद्धया उत्साहेन च परिपूर्णम् आसीत्।
जनपदाधिकारी यात्रिभ्यः शुभाशिषं दत्त्वा अवदत् यत् एषा यात्रा न केवलं धार्मिक-आस्थायाः प्रतीकः अस्ति, अपि तु अस्माकं सांस्कृतिक-धरोहरां राष्ट्रीय-एकतां च सुदृढयितुं महत्त्वपूर्णं माध्यमम् अस्ति। तेन यात्रिकान् अनुशासनस्य मर्यादायाः च पालनं कृत्वा यात्रां सफलां कर्तुं आह्वानं कृतम्।
लखनऊ-नगरे मुख्यमन्त्रिणा प्रदेशस्य विविधेभ्यः जनपदेभ्यः आगतान् श्रद्धालून् एकत्रीकृत्य विशेष-रेलेन सोमनाथ-क्षेत्रं प्रति प्रेषिताः भविष्यन्ति। एषा यात्रा शासनस्य महत्त्वपूर्णा धार्मिक-सांस्कृतिक-प्रयत्नस्य अङ्गं वर्तते, यस्य उद्देश्यः प्रदेशवासिनः देशस्य प्रमुख-तीर्थ-स्थलैः सह सम्बद्धान् कर्तुम् अस्ति। फर्रुखाबाद-जनपदात् अस्यां यात्रायां सम्मिलिताः यात्रिणः - त्रिलोकी-नाथ-वर्मा, चेतन-भारती, शान्ति, सुरेन्द्र-कुमार-पाण्डेय, राकेश-कुमार-सारस्वत, यतीन्द्र-प्रकाश-दुबे, निहारिका-पटेलः, पं.अजय-पालः, राकेशः, अङ्कुर-कुमार-कश्यपः इत्यादयः सन्ति। यात्रादलस्य नोडल-अधिकारी सहायक-आयुक्त-उद्योग सोनाली-सिंह नामिता, या सम्पूर्ण-यात्राकाले समन्वयं व्यवस्थां च निरीक्षिष्यति।
अस्मिन् अवसरे जनपद-विकास-अधिकारी, क्षेत्रीय-पर्यटन-अधिकारी तथा अन्ये सम्बन्धित-अधिकारी-कर्मचारिणः उपस्थिताः आसन्, ये यात्रिकेभ्यः शुभाशिषः दत्त्वा यात्रायाः सफल-संचालनस्य कामनां कृतवन्तः।
हिन्दुस्थान समाचार / अंशु गुप्ता