परशुराम जयन्ती धर्मस्य, शौर्यस्य नैतिक नेतृत्वस्य च अद्भुतः संगमः - प्रो. बिहारी लाल शर्मा
वाराणसी,19 अप्रैलमासः (हि.स.)।वैशाख-शुक्ल-तृतीयायां रविवासरे भगवान परशुराम-जयन्ती श्रद्धया, आस्थया, सांस्कृतिक-उल्लासेन च सम्यक् आयोज्यते। अस्मिन् शुभावसरे सम्पूर्णानंद संस्कृत विश्वविद्यालय-कुलपतिः प्रो. बिहारी लाल शर्मा उक्तवान् यत् भगवान् परशुरा
प्रो. बिहारी लाल शर्मा


वाराणसी,19 अप्रैलमासः (हि.स.)।वैशाख-शुक्ल-तृतीयायां रविवासरे भगवान परशुराम-जयन्ती श्रद्धया, आस्थया, सांस्कृतिक-उल्लासेन च सम्यक् आयोज्यते। अस्मिन् शुभावसरे सम्पूर्णानंद संस्कृत विश्वविद्यालय-कुलपतिः प्रो. बिहारी लाल शर्मा उक्तवान् यत् भगवान् परशुरामस्य जीवनं केवलं पौराणिक-आख्यानं नास्ति, अपि तु समकालीन-समाजाय अपि एकं सशक्तं नैतिक-दर्शनं प्रस्तौति, यत् अद्यापि अत्यन्तं प्रासंगिकम् अस्ति।

तेन उक्तं यत् भगवान विष्णु-अवतारत्वेन प्रसिद्धः परशुरामः ज्ञान-शक्ति-समन्वयस्य अद्वितीयः प्रतीकः अस्ति। महर्षि जमदग्नि तथा रेणुका-पुत्रः सः तपसा, त्यागेन, संयमेन, शौर्येण च धर्मस्य पुनःस्थापनं कृतवान्। कार्तवीर्य अर्जुन-इव अत्याचारी-शासकानां विरुद्धं तस्य संघर्षः एतत् दर्शयति यत् शक्ति: सदा न्यायाय लोककल्याणाय च उपयुज्येत।

प्रो. शर्मा महोदयः अवदत् यत् अद्यतन-सन्दर्भेषु समाजः विषमताभिः, नैतिक-चुनौतिभिः, मूल्य-सङ्कटैः च पीड्यते। एतादृशे काले परशुरामस्य आदर्शः मार्गदर्शकरूपेण प्रकाशते। तस्य जीवनं शिक्षयति यत् शासन-व्यवस्थायाः तथा नेतृत्वस्य आधारः नैतिकता, पारदर्शिता, जनकल्याणं च भवेत्।

अधुना शिक्षाव्यवस्थायां केवलं ज्ञानार्जनं न पर्याप्तम्, किन्तु चरित्र-निर्माणं, आत्मानुशासनं च अनिवार्यम् इति अपि तेन प्रतिपादितम्। परशुरामः ‘ब्राह्मतेजः’ ‘क्षात्रतेजः’ च समन्वितवान्, येन समाजस्य संतुलित-विकासाय बौद्धिक-शक्ति: साहसं च आवश्यकं भवति इति सन्देशः दत्तः।

युवान् प्रति आह्वानं कुर्वन् सः अवदत् यत् ते परशुरामस्य जीवनात् प्रेरणां गृह्णन्तु, अन्याय-अधर्मयोः विरुद्धं सजगाः स्युः, स्वकर्तव्येषु निष्ठावन्तः च भवन्तु। डिजिटल-युगे आत्मसंयमस्य, अनुशासनस्य, नैतिकतायाः च महत्त्वं अधिकं वर्धितम् अस्ति, यत् अंगीकृत्य एव सुदृढः संस्कारितः समाजः निर्मीयते।

पर्यावरण-संरक्षणस्य सन्दर्भे अपि तेन उक्तं यत् प्रकृतेः सह संतुलित-सहअस्तित्वम् अद्यतनस्य प्रमुखा आवश्यकता अस्ति। परशुरामस्य जीवनस्थितः अयं सन्देशः वर्तमान-पर्यावरणीय-चुनौतिनां समाधानाय प्रेरणादायकः अस्ति।

अतः परशुराम जयंती अस्मान् एतत् संकल्पं कर्तुं प्रेरयति यत् वयं स्वीय-व्यक्तिगत-सामाजिक-जीवने धर्मं, न्यायं, करुणां च अनुसरामः। एष एव तस्मै यथार्था श्रद्धाञ्जलिः, तथा च अस्य मार्गस्य अनुसरणेन वयं समरसः, सशक्तः, नैतिकः च समाजः स्थापयितुं शक्नुमः।

हिन्दुस्थान समाचार