Enter your Email Address to subscribe to our newsletters

- उज्ज्वला-योजनया ग्रामीणमहिलानां जीवने महत् परिवर्तनम् आगतम्
- धूमतः मुक्तिः स्वच्छेन्धनं प्रति च अग्रेसरः जनपदः
अयोध्या, 20 अप्रैलमासः (हि.स.)।उत्तरप्रदेशस्य योगी-सर्वकारे प्रधानमन्त्रिणः नरेन्द्र मोदिनः महत्त्वाकाङ्क्षिण्या 'उज्ज्वला-योजनया' अयोध्याजनपदस्य लक्षशः परिवाराः साक्षात् लाभं प्राप्तवन्तः। एप्रिल २०१७ तः मार्च २०२६ पर्यन्तं जनपदे कुल २,२७,२२६ लाभार्थिपरिवाराः अन्या योजनया लाभान्विताः अभवन्। एषा योजना मुख्यरूपेण ग्रामीणक्षेत्राणां महिलाः लक्ष्यीकृत्य चालिता अस्ति, यया तासां जीवने महत् परिवर्तनम् आगतम्।
अस्याः योजनायाः अन्तर्गतं निर्धनपरिवाराणां महिलाभ्यः नि:शुल्कम् एलपीजी अनिल-सम्पर्कः प्रदत्तः। इतः पूर्वं यत्र महानसे काष्ठं, गोमयम्, अङ्गारं च पारम्परिकेन्धनरूपेण उपयुज्यते स्म, येन धूमकारणात् महिलाः बालाश्च श्वाससम्बन्धि-रोगाणां ग्रासाः भवन्ति स्म, तत्रैव अधुना स्वच्छेन्धनस्य उपलब्ध्या तासां स्वास्थ्यं रक्षितम्। धूमतः मुक्त्या सह महिलानां समयस्यापि रक्षणं भवति, यः समयः अधुना परिवारस्य परिचर्यायां, बालानां शिक्षायां अन्यकार्येषु च उपयुज्यते। महानसे अनिलसम्पर्केण न केवलं स्वास्थ्यं सुधरितं, अपितु सौविध्यमपि वर्धितम्। भोजननिर्माणं तीव्रं सुलभं च जातम्।
प्रायः १३ कोटि-कुन्तलं (Quintal) धान्यं वितरितम्
जनपदे 'राशन-कार्ड-योजना' अपि सुदृढतया चलति। एप्रिल २०१७ तः मार्च २०२० पर्यन्तं १८,३०,५३५ लाभार्थिनः 'राशन-कार्ड' धारकाः सन्ति, यदा तु एप्रिल २०१७ तः मार्च २०२६ पर्यन्तं नि:शुल्क-धान्य-वितरण-अन्तर्गतं १२,९२,८८,८८७ कुन्तलं धान्यं वितरितम्। एताभिः योजनाभिः निर्धनपरिवाराणां पोषणं तथा ऊर्जा-सुरक्षा च उभे प्रत्ते।
काष्ठकर्तनस्य न्यूनतया वनानां रक्षणम्
अयोध्यायाः ग्रामीणक्षेत्रेषु अस्याः योजनायाः व्यापकः प्रभावः दृश्यते। महिलाः अधुना धूमपूर्णात् महानसात् बहिः आगत्य स्वस्थं सशक्तं च जीवनं जीवन्ति। योजनया पर्यावरणसंरक्षणे अपि योगदानं दत्तं, यतः काष्ठकर्तनस्य न्यूनतया वनानां उपरि दबावः न्यूनः जातः। अयोध्यासदृशे पुण्यस्थले स्वच्छोर्जां प्रति एतत् पदं राममन्दिरनगर्याः छविं अधिकं वर्धयति। मुख्यमन्त्रिणः योगिनः आदित्यनाथस्य कुशलनेतृत्वे उत्तरप्रदेशसर्वकारेण केन्द्रस्य एतां जनकल्याणकारी-योजनां प्रभाविरूपेण कार्यान्विता कृता।
महिलाः सशक्ताः, परिवाराः स्वस्थाः
जिला-पूर्ति-अधिकारी बृजेश मिश्रा महोदयः अवदत् यत् प्रधानमन्त्रि-उज्ज्वला-योजनया महिलाः सशक्ताः कृताः परिवाराणां स्वास्थ्यस्तरं च उन्नतम्। अयोध्याजनपदे लक्षशः परिवारेभ्यः प्राप्तः अयं लाभः सर्वकारस्य लोककल्याणकारी-नीतीनां जीवन्तः प्रमाणम् अस्ति। केन्द्र-राज्यसर्वकारयोः संयुक्तप्रयासैः जनसामान्याः साक्षात् लाभं विन्दन्ति, येन विकासस्य गतिः तीव्रा जाता। भविष्ये अपि एतादृशाः योजनाः निर्धनानां जीवनं सुखमयं कर्तुं महत्त्वपूर्णां भूमिकां निर्वक्ष्यन्ति।
हिन्दुस्थान समाचार