Enter your Email Address to subscribe to our newsletters

भोपालम्, 20 अप्रैलमासः (हि.स.)।
मध्यप्रदेशस्य राजधान्यां भोपालनगरे अद्य सोमवासरे नारीसशक्तिकरणस्य महत् आयोजनं भवितुं गच्छति। प्रातः १० वादनतः अपराह्णे २:३० वादनपर्यन्तं एमवीएम प्राङ्गण्ये आयोजिते अस्मिन् विशाले सम्मेलने प्रदेशभरतः प्रायः १५ तः २० सहस्रं महिलाः सम्मिलिताः भविष्यन्ति इति अनुमानम् अस्ति।
अनेन आयोजनेन सहैव भाजपा-दलेन “नारीशक्ति” इत्यस्याः समर्थने एका विशाला महिला-पदयात्रा अपि निष्कासयिष्यते। एषा पदयात्रा एमवीएम-महाविद्यालय-प्राङ्गणात् (प्राचीन-विधानसभा) आरभ्य रोशनपुरा-चौराहा पर्यन्तं गमिष्यति। अस्मिन् महिलाः स्वसम्मानस्य, अधिकारस्य, स्वाभिमानस्य च समर्थने स्वैकजुटतां प्रदर्शयिष्यन्ति। कार्यक्रमे मुख्यमन्त्री डॉ. मोहन यादवः, भाजपा-प्रदेशाध्यक्षः हेमन्त खण्डेलवालः, महिलामन्त्रिणः तथा च बहवः वरिष्ठाः नेतारः सम्मिलिताः भविष्यन्ति।
कार्यक्रमस्य कारणेन नगरे अत्यधिकसम्मर्दं यातायातस्य दबावं च वीक्ष्य प्रशासनेन विशेष-यातायात-व्यवस्था प्रवर्तित अस्ति। सम्मेलने भागं ग्रहीतुं प्रायः ३५० बस-यानानि २५०० तः अधिकानि चतुश्चक्रवाहनानि नगरे प्रवेक्ष्यन्ति। एतेषां वाहनानां निरोधाय (पार्किङ्ग) मुख्यरूपेण लाल परेड ग्राउण्ड् इति निर्धारितं, यतः प्रतिभागिनः कार्यक्रमस्थलं यावत् नेष्यन्ते।
यातायात-परिवर्तनम् - एतैः मार्गैः गच्छन्तु
यातायात-आरक्षकदलेन नगरस्य प्रमुखमार्गेषु परिवर्तन-योजना प्रवर्तिता अस्ति—
- रेल्वे-स्थानकं गच्छन्ति वाहनानि 'बोर्ड ऑफिस', 'डीबी मॉल' तथा 'सुभाष ओवरब्रिज' माध्यमेन गमिष्यन्ति।
- जवाहर-चौकतः आगच्छद्भिः गच्छद्भिः च जनैः 'लिंक रोड-२' इत्यस्य उपयोगः करणीयः।
- प्राचीन-नगरतः भारत टॉकीज, पुल बोगदा, जिंसी तथा कोर्ट-चौराहा-मार्गाः उत्तमाः विकल्पाः भविष्यन्ति।
- वीआईपी-मार्गतः नूतननगरं प्रति गन्तुं 'स्मार्ट रोड', 'भारत माता चौराहा' तथा 'लिंक रोड-२' इति मार्गाः निर्णीताः।
- नगरस्य स्थानीय-बस-यानानि विभिन्नप्रमुखचौराहेभ्यः भूत्वा लाल परेड ग्राउण्ड् प्राप्स्यन्ति।
- प्रातः १० वादनतः 'कन्ट्रोल रूम तिराहा', 'गान्धी पार्क', 'रोशनपुरा चौराहा' तथा च समीपवर्तिषु क्षेत्रेषु अत्यधिकं यातायातसङ्कटं भवितुं सम्भावना अस्ति।
पार्किंग-व्यवस्था
- सीहोरतः आगच्छन्ति वाहनानि 'रवीन्द्र भवन' परिसरे निरुद्धानि भविष्यन्ति।
- राजगढ़-जनपदस्य वाहनानि 'एमएलए रेस्ट हाउस' मध्ये स्थापयिष्यन्ते।
- अन्यजनपदेभ्यः (भोपालसहितं) वाहनानां कृते 'लाल परेड ग्राउण्ड्' निर्धारितम् अस्ति।
- प्रसारमाध्यमानां वाहनानां निरोधव्यवस्था 'पुलिस कमिश्नर' कार्यालये भविष्यति।
- कार-यानानां कृते पृथक् विशेषव्यवस्था कृता अस्ति।
---------------
हिन्दुस्थान समाचार