Enter your Email Address to subscribe to our newsletters


जांजगीर-चांपा, 20 अप्रैलमासः (हि.स.)।कलेक्टर-जनमेजय-महोबे इत्यस्य निर्देशनाधीनं 9 अप्रैल-तिथेः आरभ्य 23 अप्रैल-तिथिपर्यन्तं सर्वासु परियोजनासु स्थितेषु समस्तेषु आङ्गनबाडी-केन्द्रेषु “पोषण-पक्षवाड़ा” इति कार्यक्रमः आयोज्यते। अस्य अन्तर्गतं अद्य परियोजना-जान्जगीरस्य सिवनी-बम्हनीडीह, नवागढ़स्य नगारीडीह, पामगढ़स्य ससहा-स्थितेषु आङ्गनबाडी-केन्द्रेषु “बाल-मैत्री-कार्यक्रमः” आयोजितः।
अस्मिन् कार्यक्रमे बालानां मनोरञ्जनेन सह तेषां स्वास्थ्य-पोषणयोः विषये विशेषः ध्यानः केन्द्रितः अभवत्। कार्यक्रमस्य प्रारम्भे केन्द्रेषु उपस्थितानां बालानां कृते विविधाः बाल-मैत्री-क्रियाकलापाः आयोजिताः। आङ्गनबाडी-कार्यकर्त्रियः बालान् कथाभिः कविताभिः च केन्द्रे प्रति आकर्षितवन्त्यः।
अस्मिन् अवसरे “सुपोषण-परि” इति क्रिया मुख्य-आकर्षणं आसीत्, यस्य माध्यमेन कार्यकर्त्रियः बालान् तेषां मातॄन् च स्थानिक-स्तरे उपलब्धस्य पौष्टिक-आहारस्य (संतुलित-भोजनस्य) महत्त्वं विस्तारतः अवबोधयन्।
पोषण-पक्षवाड़ा-अवसरे बालानां भ्रमणं कृत्वा सामाजिक-सहभागिता अपि दर्शिता, पोषण-रैली अपि आयोजिताऽभूत्, पोषण-बालविवाह-निवारणयोः विषये शपथः दत्तः, बालानां कृते बालगीतानि अपि गायितानि।
अस्मिन् विशेष-सत्रे बहुसंख्यकाः पालकाः ग्रामवासिनश्च सहभागिनः अभवन्।
आङ्गनबाडी-कार्यकर्त्रियः उक्तवन्त्यः यत् एतादृश-कार्यक्रमाणां उद्देश्यं केवलं बालानां मनोरञ्जनं न, अपि तु समाजे कुपोषण-विषये जागरूकता-विस्तारः शत-प्रतिशत-टीकाकरणस्य सुनिश्चितता च अस्ति।
कार्यक्रमस्य अन्ते बालभ्यः विशेषः पूरक-पोषण-आहारः वितरितः। अस्मिन् समये सेक्टर-पर्यवेक्षकाः स्थानीय-जनप्रतिनिधयश्च विविध-केन्द्राणां भ्रमणं कृत्वा कार्यकर्तॄणां उत्साहवर्धनं कृतवन्तः।
---------------
हिन्दुस्थान समाचार