Enter your Email Address to subscribe to our newsletters

पटना, 20 अप्रैलमासः (हि.स.)।
बिहार-राज्यं विकासस्य नवीन-उच्चताभ्यः नेतुं दृढ-संकल्पेन उप-मुख्यमन्त्री सह विज्ञान-प्रावैधिकी-तकनीकी-शिक्षा-मन्त्री विजय-चौधरी-महाभागः अद्य विभागस्य समीक्षा-सभा आयोजितवान्।
अस्यां सभायां सः स्पष्टतया उक्तवान् यत् प्लेसमेंट् तथा एनबीए-एक्रेडिटेशन इत्ययोः विषये सर्वकार विशेषतः ध्यानं दास्यति।
राज्यस्य अभियंत्रण-महाविद्यालयानां रैंकिंग-विषये विशेषं बलं दत्त्वा उप-मुख्यमन्त्री आदेशं दत्तवान् यत् विभिन्न-संस्थानानां मध्ये उत्तमः समन्वयः स्थाप्य शिक्षायाः आधारभूत-संरचनायाः च गुणवत्तायां व्यापकः सुधारः क्रियेत।
सः अधिकारिभ्यः कठोर-निर्देशान् दत्तवान् यत् एनबीए-इत्यादिभ्यः संस्थाभ्यः एक्रेडिटेशन (मान्यता) प्राप्तुं ‘मिशन-मोड्’ इति पद्धत्यां कार्यं क्रियेत। ये संस्थानाः अद्यपर्यन्तं एक्रेडिटेशनार्थं आवेदनं न कृतवन्तः, तेषां विस्तृत-विवरणं याचितम्। विभागे अस्य कृते एकः विशेषः कोशः (सेल्) स्थापितव्यः, तत्र च नोडल-अधिकारी नियुक्तव्यः।
उप-मुख्यमन्त्री बलं दत्त्वा उक्तवान् यत् सर्वेषु राजकीय-अभियंत्रण-महाविद्यालयेषु पॉलिटेक्निक-संस्थासु च प्लेसमेंट-अवसराः समरूपेण सृज्यन्ताम्। तदर्थं विभिन्न-संस्थानानां मध्ये स्वस्थ-स्पर्धा अपि विकसितव्या। एताः संस्थाः ‘कंसिस्टेंट्-एप्रोच्’ इति एकरूप-पद्धत्या कार्यं कुर्वन्तु इति तेन उपदिष्टम्।
विज्ञान-तकनीकी-अन्वेषणानां सामान्य-जनमानसं प्रति प्रसारणार्थम् उप-मुख्यमन्त्री आदेशं दत्तवान् यत् विभागाधीनः बीआईआरएसएसी-संस्थया नेशनल-इन्स्टिट्यूट्-ऑफ्-रिमोट्-सेंसिंग्-सेन्टर्, हैदराबाद इत्यनेन सह आवश्यकः समन्वयः स्थाप्य ‘नाइट्-स्काय्-एटलस्’ इत्यादि नवीन-तकनीकाः राज्यस्य विकास-कार्येषु उपयुज्यन्ताम्।
अन्ते उप-मुख्यमन्त्री उक्तवान् यत् विद्यार्थिनां उत्तमा देखभाल सुनिश्चितीक्रियेत तथा च तेषां अभिभावकैः प्रदत्ताः महत्त्वपूर्णाः सुझावाः विभागेन शीघ्रतया क्रियान्विताः क्रियन्ताम्।
---------------
हिन्दुस्थान समाचार