Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 20 अप्रैलमासः (हि.स.)।गुवाहाटी-नगरे १९ तथा २० एप्रिल दिनाङ्कयोः मध्ये रात्रौ अभवत् प्रचण्डवृष्ट्या उत्पन्नं कृत्रिम-जलप्लावस्य स्थितिं वीक्ष्य जनपदप्रशासनेन सोमवासरे सर्वान् शैक्षणिकसंस्थानान् पिहितुं (विश्रामं दातुम्) आदेशः निर्गतः।
जनपदायुक्तः तथा च कामरूप-महानगरस्य (Metro) जनपद-आपदा-प्रबन्धन-प्राधिकरणस्य (DDMA) अध्यक्षः स्वप्नील पॉल (IAS) महोदयेन निर्गतस्य आदेशानुसारं, गुवाहाटी-नगरनिगमस्य अन्तर्गतं आगच्छन्तः सर्वे सरकारी-निजी-शैक्षणिकसंस्थानानि २० एप्रिल दिनाङ्के पिहितानि भविष्यन्ति। अयं निर्णयः छात्राणां कर्मचारिणां च सुरक्षां ध्यात्वा जनहितार्थं स्वीकृतः अस्ति।
अयम् आदेशः आपदा-प्रबन्धन-अधिनियम-२००५ इत्यस्य धारा ३०(२) इत्यस्याः अन्तर्गतं निर्गतः, यस्याः आधारेण आपत्काले आवश्यक-पदक्षेपाणां स्वीकरणस्य प्रावधानं वर्तते।
अस्मिन् सन्दर्भे असम-राज्य-आपदा-प्रबन्धन-प्राधिकरणं, उच्चशिक्षा-माध्यमिकशिक्षा-निदेशालयं च सह सम्बद्धेभ्यः अधिकारिभ्यः आवश्यककार्यवाह्यै सूचना दत्ता अस्ति।
हिन्दुस्थान समाचार