Enter your Email Address to subscribe to our newsletters

मथुरा, 20 अप्रैलमासः (हि.स.)।
सोमवासरे वैशाखशुक्लतृतीयायां (अक्षयतृतीयायां) श्रीकृष्णजन्मस्थाने भगवतः परशुरामस्य भव्यपञ्चामृताभिषेकः सम्पन्नः। अस्मिन् अवसरे श्रीकेशवदेवमन्दिरे श्रीराधाकृष्णमन्दिरे च भगवतः चन्दनशृङ्गारस्य दिव्यदर्शनम् अभवत्।
सोमवासरे सायङ्काले श्रीकृष्णजन्मस्थानसेवास्थानस्य प्रबन्धसमित्याः सदस्यः गोपेश्वरनाथ चतुर्वेदी महोदयः अवदत् यत् भगवतः श्रीविष्णोः षष्ठम-अवतारः भगवान् परशुरामः हैहयवंशीयराज्ञः घोर-अत्याचारेभ्यः मुक्तिं प्रदापितवान्। सः एकविंशतिवारं (२१) अस्मिन् भूमण्डले अत्याचारिणां विनाशं कृत्वा सम्पूर्णां पृथ्वीं कश्यपऋषये समर्पितवान्। शास्त्रेषु उल्लेखः अस्ति यत् भगवान् परशुरामः अद्यापि महेन्द्रपर्वते तपस्यारतः अस्ति तथा च कलियुगे आगमिष्यते कल्किभगवते तेन एव शास्त्र-शस्त्रयोः दीक्षा प्रदास्यते। एतादृशस्य चिरजीविनः भगवतः परशुरामस्य भव्यजन्मोत्सवः 'भागवत भवने' उत्साहपूर्वकं पञ्चोपचारपूजनेन अभिषेकेन च सह विधिवत् मानितः। सः अद्यापि अत्याचारस्य विरुद्धं सङ्घर्षाय अस्मान् निरन्तरं प्रेरयति। अस्मिन् अवसरे सहस्रशः भक्तेभ्यः पञ्चामृतं प्रसादं च वितरितम्।
अक्षयतृतीयायाः अवसरे श्रीकेशवदेवस्य तथा भागवतभवने विराजमानस्य श्रीकृष्णस्य विग्रहस्य विशिष्ट-चन्दन-शृङ्गारस्य दर्शनाय स्थानीयभक्तैः सह दूरतः अपि विशालायां संख्यायां श्रद्धालवः श्रीकृष्णजन्मस्थानं सम्प्राप्ताः। श्रीकृष्णजन्मभूमिपरिसरे स्थिते श्रीकेशवदेवमन्दिरे परम्परानुसारं ठाकुरस्य चन्दनशृङ्गारस्य पुष्पबङ्गलायाः च दर्शनं प्रातःकालात् आरभ्य रात्रौ शयन-आरतिं यावत् निरन्तरं प्रचलति स्म। अस्य विशिष्टचन्दनशृङ्गारस्य सज्जीकरणाय मन्दिरस्य पूजाचार्याः सेवकाः च गतेभ्यः कतिपयसप्ताहेभ्यः चन्दनसामग्र्याः निर्माणं कुर्वन्तः आसन्।
ठाकुरश्रीकेशवदेवस्य श्रीराधाकृष्णस्य च विग्रहयोः मनोहारीणि दर्शनानि कृत्वा न केवलं स्थानीयभक्ताः अपितु सहस्रशः अन्ये श्रद्धालवः अपि अभिभूताः अभवन्। भगवतः विशेषवेषभूषा (पोशाक) चन्दनशृङ्गारश्च अतीव दर्शनीयः आसीत्।
अस्मिन् अवसरे संस्थानस्य उपप्रबन्धकः अनुराग पाठकः, जनसम्पर्कप्रभारी विजय बहादुर सिंहः, मन्दिरपूजाचार्यः विन्ध्येश्वरी प्रसाद अवस्थी, आचार्यः श्रीमहेश चन्द्र शर्मा, सनातन पण्डा इत्यादयः अन्ये च गणमान्याः महानुभावाः उपस्थिताः आसन्।
हिन्दुस्थान समाचार