Enter your Email Address to subscribe to our newsletters

गोरखपुरम्, 20 अप्रैलमासः (हि.स.)।पूर्वाञ्चले वैदिकशिक्षायाः प्रसारदिशि एकं महत्त्वपूर्णं पदं स्थापयित्वा खजनी-तहसील-क्षेत्रस्य साख डांड़ पाण्डे ग्रामे महर्षि-सावर्ण्य-वेद-विद्यापीठस्य स्थायीभवनार्थं भूमिपूजनकार्यक्रमः विधि-विधानेन वैदिकमन्त्रोच्चारैः च सह भव्यरूपेण सम्पन्नः अभवत्।प्रातःकालीनशुभवेलायाम् आयोजितः अयं कार्यक्रमः सम्पूर्णं वातावरणं आध्यात्मिकं देवमयं च अकरोत्।
एषः वेदविद्यालयः पूर्वाञ्चलस्य प्रथमः तादृशः संस्थानः अस्ति, यत्र चतुर्णां वेदानां शिक्षा एकस्मिन्नेव परिसरे प्रदातुं कार्यं क्रियते। अयं संस्थानः महर्षि सांदीपनि राष्ट्रीय वेद विद्या प्रतिष्ठानम्, उज्जैन (मध्यप्रदेशः) इत्यस्य मार्गदर्शने सञ्चालने च कार्यं करोति, यत् सम्पूर्णदेशे वैदिकपरम्परायाः संरक्षणाय संवर्धनाय च विख्यातं वर्तते।
कार्यक्रमस्य आरम्भः प्रातः ६ वादने वैदिकाचार्याणां मन्त्रोच्चारैः विधिवत् पूजनेन च अभवत्। विद्यालयस्य प्रबन्धकः पण्डित अजय पाण्डे महोदयः स्वधर्मपत्न्या सह विधिपूर्वकं पूजनं कृत्वा भवनस्य आधारशिलां स्थापितवान्। अस्मिन् अन्तरे विदुषां मुखात् उच्चारितैः वैदिकमन्त्रैः सम्पूर्णः परिसरः आध्यात्मिक-ऊर्जया ओतप्रोतः जातः।
ज्ञातव्यं यत् अयं विद्यालयः गतेभ्यः नववर्षेभ्यः क्षेत्रे सुचारुरूपेण सञ्चालितः अस्ति तथा च वैदिकशिक्षायाः क्षेत्रे स्वकीयां विशिष्टां पहिचानं (परिचयं) निर्मितवान्। अतः शिक्षां प्राप्ताः छात्राः अग्रे गत्वा श्री लाल बहादुर शास्त्री राष्ट्रीय संस्कृत विश्वविद्यालयः, नई दिल्ली सदृशपुण्यसंस्थानेषु वास्तुशास्त्र-ज्योतिषसदृशाणां विषयाणाम् अध्ययनं कुर्वन्ति, यत् विद्यालयस्य कृते गौरवस्य विषयः अस्ति।
अस्मिन् शुभप्रसङ्गे विद्यालयपरिवारस्य अध्यक्षः पण्डित विजय पाण्डे, सचिवः पण्डित अजय पाण्डे, कोषाध्यक्षः रिंकू पाण्डे तथा कार्यकारिणीसदस्याः राघवेंद्र कुमार पाण्डे, आमोद मद्धेशिया, जितेंद्र तिवारी (पूर्वचेयरमैन, इफको), कुसुम तिवारी, एम. पी. शर्मा, गीता शर्मा इत्येतेषां सहैव क्षेत्रस्य अनेके विद्वांसः, शिक्षकाः, गणमान्याः नागरिकाः विद्यालयस्य छात्र-छात्राश्च उपस्थिताः आसन्।
कार्यक्रमस्य अन्ते सर्वे अतिथयः उपस्थिताः जनाश्च प्रसादं गृहीतवन्तः, विद्यालयस्य संस्थापकाय प्रबन्धनसमित्यै च अस्यै महत्त्वपूर्णाय उपलब्धये शुभकामनाः वर्धापनानि च दत्तवन्तः।
एतत् भूमिपूजनं न केवलं कस्यचित् भवननिर्माणस्य आरम्भः अस्ति, अपितु पूर्वाञ्चले वैदिकसंस्कृतेः, शिक्षायाः भारतीयपरम्परायाश्च पुनर्जागरणस्य दिशि एकः सशक्तः पदक्षेपः इति रूपेण दृश्यते।
---------------
हिन्दुस्थान समाचार