सपाकांग्रेसमहिलाभ्यः तदीयम्अधिकारं दातुं पक्ष न : पंकजचौधरी
लखनऊ/महराजगंजः, 20 अप्रैलमासः (हि.स.)।भारतीयजनतापक्षस्य प्रदेशाध्यक्षः तथा केन्द्रीयवित्तराज्यमन्त्री पंकजचौधरी सोमवासरे महाराजगञ्जे आयोजितायां पत्रकारवार्तायाम् अवदत् यत् इण्डी-एलायन्स् इत्यस्य दलानि महिलाआरक्षणस्य समर्थनं केवलं मिथ्याचाररूपेण कुर
प्रेसवार्ता करते प्रदेश भाजपा अध्यक्ष पंकज चौधरी


लखनऊ/महराजगंजः, 20 अप्रैलमासः (हि.स.)।भारतीयजनतापक्षस्य प्रदेशाध्यक्षः तथा केन्द्रीयवित्तराज्यमन्त्री पंकजचौधरी सोमवासरे महाराजगञ्जे आयोजितायां पत्रकारवार्तायाम् अवदत् यत् इण्डी-एलायन्स् इत्यस्य दलानि महिलाआरक्षणस्य समर्थनं केवलं मिथ्याचाररूपेण कुर्वन्ति, वस्तुतः तु ते महिलाभ्यः स्वअधिकारं दातुं न इच्छन्ति।

चौधरी अवदत् यत् देशस्य अर्धभागरूपा मातरः भगिन्यश्च नीतिनिर्धारणे स्वअधिकारं प्राप्नुयुः इति उद्देश्येन मोदीसर्वकारेण त्रयस्त्रिंशत्प्रतिशतं महिलाआरक्षणस्य ऐतिहासिकविधेयकं प्रस्तुतम्। किन्तु काङ्ग्रेस्, समाजवादीपार्टी तथा इण्डी-एलायन्स् अन्यदलानि एतत् महत्त्वपूर्णं विधेयकं पारितं न कृत्वा स्वीयां वास्तविकां मनोवृत्तिं प्रकटितवन्तः।

तेन उक्तं यत् समाजवादीपक्षः, काङ्ग्रेस् तथा तेषां सहयोगिनः पुनः स्वीयां महिलाविरोधिनीं मानसिकतां प्रकाशितवन्तः। एते दलाः सम्यक् जानन्ति यत् यदा गृहस्य महिलाः अग्रे गमिष्यन्ति, तदा तेषां परिवारवादः वंशवादश्च स्वयमेव दुर्बलः भविष्यति।

भाजपप्रदेशाध्यक्षेण उक्तं यत् समाजवादीपार्टी स्वीयां महिलाविरोधिनीं चिन्तनपद्धतिं गोपयितुं “नकाबस्य आश्रयम्” अगृह्णात्, किन्तु अधुना देशस्य अर्धजनसंख्यायाः सम्मुखे तस्याः नकाबः अपसारितः। तेन आरोपितं यत् तुष्टीकरणनीतिम् अनुसृत्य एते दलाः केवलं प्रायः विंशतिप्रतिशत मुस्लिममहिलानां नाम्ना शेषाणां अशीतिप्रतिशत महिलानां अधिकारान् अन्यायेन हृतवन्तः। वस्तुतः अस्य विधेयकस्य लाभः सर्ववर्गीयमहिलाभ्यः, तासु मुस्लिममहिलाभ्यः अपि, सम्यक् प्राप्तः स्यात्।

तेन स्पष्टं कृतं यत् धर्माधारितम् आरक्षणं संविधानस्य मूलभावनायाः विरुद्धम् अस्ति, तथा च भारतीयजनतादलं सदैव संविधानस्य मर्यादां मूलसिद्धान्तांश्च अनुसरति। चौधरी अवदत् यत् मोदीसरकारस्य महिलासशक्तीकरणे प्रति दृढप्रतिबद्धता अस्ति। गृहमन्त्रिणा सदने पञ्चाशत्प्रतिशत आसनवृद्धेः आश्वासनं दत्तं, यत् दर्शयति यत् सर्वकारः महिलाभ्यः अधिकाधिकाः अवसराः दातुं संकल्पिता अस्ति।

तेन इण्डी-एलायन्स् “स्त्रीविरोधी-संघटनम्” इति निर्दिश्य उक्तं यत् एषः गठबन्धनः रूढिवादिन्या मानसिकतया ग्रस्तः अस्ति, यः इच्छति यत् महिलाः केवलं गृहे एव सीमिताः स्युः। एते दलाः सदा महिला-आरक्षणं निरोद्धुं, विलम्बयितुम्, अवरोद्धुं च प्रयासं कृतवन्तः।

चौधरी अवदत् यत् देशस्य विकासः अर्धजनसंख्यायाः सशक्तीकरणं विना असम्भवः अस्ति, तथा च देशस्य नारीशक्तिः एतादृशं महिलाविरोधि-संघटनं कदापि न क्षमिष्यते।

हिन्दुस्थान समाचार