कृषि विश्वविद्यालयेऽद्य समाचरिष्यते अक्ती तिहारः, कृषि मंत्री नेतामः करिष्यति मृत्तिकायाः बीजानां च पूजाम्
रायपुरम् 20 अप्रैलमासः (हि.स.)। इंदिरा गांधी कृषि विश्वविद्यालय मध्ये अक्षय तृतीया-उत्सवस्य अवसर पर अद्य सोमवासरे “अक्ती तिहार” इति आयोजनं क्रियते। स्वामी विवेकानंद कृषि अभियांत्रिकी महाविद्यालय एवं अनुसंधान केन्द्र समीपे स्थिते प्रक्षेत्रे प्
इंदिरा गांधी कृषि विश्वविद्यालय


रायपुरम् 20 अप्रैलमासः (हि.स.)।

इंदिरा गांधी कृषि विश्वविद्यालय मध्ये अक्षय तृतीया-उत्सवस्य अवसर पर अद्य सोमवासरे “अक्ती तिहार” इति आयोजनं क्रियते।

स्वामी विवेकानंद कृषि अभियांत्रिकी महाविद्यालय एवं अनुसंधान केन्द्र समीपे स्थिते प्रक्षेत्रे प्रातः १०:३० वादने आरभ्यमाणस्य राज्यस्तरीय अक्ती तिहार समारोहस्य मुख्य-अतिथि: कृषि-मन्त्री रामविचार नेताम भविष्यति।

अस्य समारोहस्य अध्यक्षता विश्वविद्यालयस्य कुलपति: डॉ. गिरीश चंदेल करिष्यति।

अक्षय तृतीया-अवसरे पृथ्वी-मातुः तथा बीजानां पूजाऽर्चना कृत्वा बीज-बुवाई-कार्यं प्रतीकात्मक-रूपेण क्रियते।

कृषि-मन्त्री नेतामेन प्रगतिशील-कृषकेभ्यः कृषि-आदान-सामग्रीणां वितरणं क्रियिष्यते। अस्मिन् अवसरः कृषकाणां कृते नूतन-बीज-बुवाई-प्रविधेः तथा कृषिक्षेत्रे ड्रोन-उपयोग-प्रविधेः प्रदर्शनम् अपि भविष्यति।

कृषि विज्ञान केन्द्र रायपुरद्वारा “रासायनिक-उर्वरकाणां विकल्पः” इति विषये कृषक-प्रशिक्षण-कार्यक्रमस्य अपि आयोजनं कृतम् अस्ति।

अक्ती तिहारस्य आयोजनं विश्वविद्यालयस्य अधीनस्थेषु सर्वेषु महाविद्यालयेषु, कृषि-विज्ञान-केन्द्रेषु तथा अनुसंधान-केन्द्रेषु अपि क्रियिष्यते।

---------------

हिन्दुस्थान समाचार