Enter your Email Address to subscribe to our newsletters









गोरखपुरम्, 20 अप्रैलमासः (हि.स.)।सङ्घशताब्दीवर्षस्य उपलक्ष्ये राष्ट्रीयस्वयंसेवकसङ्घस्य गोरखपुरमहानगर-उत्तरभागेन बीआरडी मेडिकल कॉलेज् परिसरे “राष्ट्रनिर्माणे यूनां भूमिका” इति विषये एकस्य भव्यस्य युवा-संवाद-कार्यक्रमस्य आयोजनं कृतम्। कार्यक्रमे विशालायां संख्यायां यूनां, स्वयंसेवकानां गणमान्यनागरिकाणां च उपस्थित्या अयं प्रेरणादायी सार्थकश्च कार्यक्रमः जातः।
कार्यक्रमस्य शुभारम्भः अखिलभारतीयप्रचारटोलीसदस्येन मुकुल कानिटकरेण, गोरक्षप्रान्तसङ्घचालकेन डॉ. महेन्द्र अग्रवालमहोदयेन, बीआरडी मेडिकल कॉलेज् इत्यस्य प्राचार्यायेन डॉ. रामकुमारेण तथा च सहभागकार्यवाहेन राजेशेन भारतमातुः चित्रे दीपप्रज्ज्वनेन पुष्पापर्णेन च सह कृतः।
मुख्यवक्तृरूपेण सम्बोधयन् मुकुल कानिटकरः अवदत् यत् सङ्घस्य कार्यं केवलं सङ्घटननिर्माणपर्यन्तं सीमितं नास्ति, अपितु एषा राष्ट्रनिर्माणस्य सतता साधना वर्तते, यस्यां यूनां भूमिका केन्द्रीया निर्णयात्मिका च अस्ति। सः उक्तवान् यत् अद्यतनपरिवर्तनशीलसमये युवभिः स्वकर्तव्येषु सजगैः भूत्वा राष्ट्रहिते सक्रिया सहभागिता निर्वहणीया।
सः यूनां परिभाषां स्पष्टयन् अवदत् यत् “युवा सः एव यः स्वप्नं पश्यति तं साकारं कर्तुं च निरन्तरं प्रयासरतः भवति।” सः एतदपि उक्तवान् यत् इतिहासः साक्षी अस्ति—यदा यदा देशे समाजे च सङ्कटम् आगतं, तदा तदा युवभिः सेवा-समर्पण-सङ्घर्षबलेन महत्त्वपूर्णा भूमिका निर्वूढा।
स्वकीयोद्बोधने सः वर्तमानसमयस्य आव्हानानाम् उल्लेखं कुर्वन् अवदत् यत् धावनपूर्णजीवनशैल्या बाजारीकरणस्य प्रभावेण च युवानः स्वमूललक्ष्यात् भ्रष्टाः जाताः। ईदृशे समये आवश्यकम् अस्ति यत् युवानः स्वजीवने राष्ट्रभावम् आत्मसात् कुर्वन्तु समाजं प्रति च स्वकीयं दायित्वम् अवगच्छन्तु।
कानिटकरमहोदयः सङ्घस्य शताब्दीवर्षस्य सन्दर्भे सूचितवान् यत् अधिकतः अधिकान् युवानः संयोजयितुं देशभरं युवा-संवादाः सम्मेलनानि च आयोज्यन्ते, येन नूतनवर्गस्य जनाः अपि सङ्घकार्येण सह सम्बद्धाः भवन्ति।
सः पर्यावरणसंरक्षणमपि राष्ट्रनिर्माणस्य महत्त्वपूर्णमङ्गं वर्णयन् पादपारोपणं, पर्यावरणरक्षणं 'प्लास्टिक' इत्यस्य उपयोगे न्यूनतां च आनेतुं तादृशेषु प्रयासेषु बलं दत्तवान्। सः अवदत् यत् यदि समाजः सङ्घटितः भूत्वा एकस्यां दिशि कार्यं कुर्यात्, तर्हि निश्चितरूपेण सकारात्मकपरिवर्तनं सम्भवम् अस्ति।
कार्यक्रमस्य अध्यक्षतां कुर्वन् बीआरडी मेडिकल कॉलेज् इत्यस्य प्राचार्यः डॉ. रामकुमारः अवदत् यत् एतादृशाः आयोजनाः युवसु राष्ट्रं प्रति जागरूकतां दायित्वभावं च विकासयन्ति, यत् समाजस्य समग्रविकासाय आवश्यकम् अस्ति।
कार्यक्रमस्य सञ्चालनं भगिनी प्राथिला अकरोत्, प्रस्ताविनी च डॉ. अखिलेश्वरेण प्रस्तुता।
अस्मिन् अवसरे प्रान्तसङ्घचालकः डॉ. महेन्द्र अग्रवालः, सहभागकार्यवाहः सन्तोष पाण्डेयः, मुख्यमार्गप्रमुखः प्रवीणः, जिलाप्रचारकः आशुतोषः, सहभागकार्यवाहः राजेशः, डॉ. पी. एन. सिंहः, डॉ. स्वातिः, डॉ. साक्षी, मोनिका अग्रवाल, डॉ. हरिश्चन्द्रः इत्यादयः अनेके स्वयंसेवकाः, युवानागरिकाः मातृशक्तिश्च उपस्थिताः आसन्।
कार्यक्रमस्य समापनं 'वन्दे मातरम्' इत्यस्य सामूहिकगानेन सह अभवत्।
---------------
हिन्दुस्थान समाचार