विद्यालयं चलतु अभियानेन लक्षमितानां बालानां निवर्तनं, सर्वकारीविद्यालयेषु वर्धितो विश्वासः
लखनऊ, 20 अप्रैलमासः (हि.स.)। उत्तरप्रदेशे गत-नववर्षेषु आधारभूतशिक्षाविभागेन व्यापकानि दृढानि च परिवर्तनानि कृताः। अस्य परिणामः अस्ति यत् परिषद्विद्यालयेषु “विद्यालयं चल” अभियानस्य अन्तर्गतं नामाङ्कने उल्लेखनीयवृद्धिः जाता। वर्षे २०२४–२५ मध्ये १३.
सरकारी स्कूल में पढ़ाई करते बच्चे


लखनऊ, 20 अप्रैलमासः (हि.स.)।

उत्तरप्रदेशे गत-नववर्षेषु आधारभूतशिक्षाविभागेन व्यापकानि दृढानि च परिवर्तनानि कृताः। अस्य परिणामः अस्ति यत् परिषद्विद्यालयेषु “विद्यालयं चल” अभियानस्य अन्तर्गतं नामाङ्कने उल्लेखनीयवृद्धिः जाता। वर्षे २०२४–२५ मध्ये १३.२२ लक्षसंख्याकानां तथा २०२५–२६ मध्ये १५.८४ लक्षसंख्याकानां बालकानां नामाङ्कनम् एतस्य प्रमाणम् अस्ति। अस्मिन् वर्षे अप्रैलमासात् आरभ्य प्रवर्तमाने अस्मिन् अभियाने २० अप्रैलपर्यन्तं, केवलं विंशतिदिनेषु एव अष्टलक्षनवसप्ततिसहस्राधिकानां नवीनबालकानां नामाङ्कनं कृतम्, यत् परिषद्शिक्षायाः सार्वभौमिककरणे सरकारस्य प्रतिबद्धतां सूचयति।

योगीसर्वकारेण विद्यालयबाह्यबालकानां परिचयः कृत्वा तान् मुख्यधारया संयोजिताः। अवस्थापनास्तरे एकलक्षद्वात्रिंशत्सहस्राधिकाः विद्यालयाः “ऑपरेशन कायाकल्प” इति अभियानेन सम्बद्धाः। वर्षे २०१७–१८ मध्ये केवलं षट्त्रिंशत्प्रतिशत विद्यालयाः आधुनिकसुविधाभिः युक्ताः आसन्, ये अधुना वर्धित्वा षण्णवतिप्रतिशताधिकाः (९६.३०%) अभवन्। पञ्चसप्ततिजनपदेषु शतपञ्चाशत् “मुख्यमन्त्री आदर्श-संयुक्तविद्यालयाः” स्थाप्यन्ते। तन्त्रज्ञानं, प्रशिक्षणं, पोषणयोजनाः च सह शिक्षाया समग्ररूपेण सुदृढीकरणं कृतम्। स्पष्टं यत् योगीसर्वकारेण शिक्षायाः प्राधान्यं दत्तम्, फलानि च अधुना व्यवस्थितरूपेण दृश्यन्ते।

नामाङ्कनस्य वृद्धौ तथा मुख्यधारया संयोजने प्रदेशे “विद्यालयं चल” अभियानः सर्वेक्षणाधारितरणनीतिः च निर्णायकभूमिकां निर्वहन्ति। वर्षे २०२४–२५ मध्ये ७.७३ लक्ष विद्यालयबाह्यबालकाः परिचिताः। तेषु २.६९ लक्ष बालकाः प्रत्यक्षं प्रथमकक्षायां प्रविष्टाः, ५.०४ लक्ष बालकाः विशेषप्रशिक्षणेन मुख्यधारया संयोजिताः। एते प्रयासाः केवलं सङ्ख्यावृद्धिः न, अपि तु शिक्षाधिकारस्य व्यवहारिकप्रवर्तनस्य उदाहरणम्। निरन्तरं वर्धमाननामाङ्कनं दर्शयति यत् राजकीयविद्यालयेषु विश्वासः अपि दृढः जातः।

निःशुल्कसुविधानां छात्रहितं च दृष्ट्वा सरकारेण आर्थिकबाधानां न्यूनीकरणे विशेषः प्रयासः कृतः। प्रतिवर्षं एककोटित्रींशल्लक्षाधिकानां विद्यार्थिनां प्रत्यक्षलाभहस्तान्तरणेन वेशभूषा, जूतमोजक, स्वेटर, पुस्तकोपकरणानि च प्राप्तुं प्रतिविद्यार्थं १२०० रूप्यकाणि दत्तानि। प्रथमकक्षातः अष्टमकक्षापर्यन्तं सर्वेभ्यः विद्यार्थिभ्यः निःशुल्कपाठ्यपुस्तकानि कार्यपुस्तिकाश्च प्रदीयन्ते। एतेन उपायेन अभिभावकानां आर्थिकभारः न्यूनः जातः तथा विद्यालयेषु विद्यार्थिनां नियमितोपस्थिति सुनिश्चिता।

अवस्थापनाविकासे महती प्रगति जाता। विद्यालयशिक्षामहानिदेशिका मोनिकरानी अवदत् यत् “ऑपरेशन कायाकल्प” अन्तर्गतं विद्यालयानां मूलभूतसुविधासु व्यापकः सुधारः जातः। एकलक्षद्वात्रिंशत्सहस्राधिकाः विद्यालयाः अस्मिन् अभियाने समाविष्टाः। प्रत्येकविद्यालये उपवेशनपीठानि, शौचालयाः, पेयजलव्यवस्था, विद्युत्, कक्षाः च सुनिश्चिताः। येषु विकासखण्डेषु कस्तूरबागान्धीबालिकाविद्यालयाः न आसन्, तत्र नूतनाः आवासीयविद्यालयाः स्थाप्यन्ते। सर्वे प्राथमिकविद्यालयाः “स्मार्टविद्यालयाः” कर्तुं कार्यं प्रचलति।

आदर्शविद्यालयैः नूतना दिशा प्रदत्ता। प्रदेशे शिक्षायाः नूतनमानकस्थापनार्थं मुख्यमन्त्रि-आदर्श-संयुक्तविद्यालयाः विकसिताः भवन्ति। पञ्चसप्ततिजनपदेषु शतपञ्चाशत् विद्यालयाः स्थाप्यन्ते। एतेषु विद्यालयेषु पूर्वप्राथमिकातः द्वादशकक्षापर्यन्तं शिक्षा दीयते। प्रत्येकविद्यालयस्य व्ययः प्रायः त्रिंशत्कोटिरूप्यकपरिमाणः, कुलव्ययः च चतुर्सहस्रपञ्चशत्कोटिरूप्यकपरिमितः। प्रत्येकविद्यालये सहस्रपञ्चशताधिकविद्यार्थिनां अध्ययनव्यवस्था भविष्यति, येन कुलं द्विलक्षपञ्चविंशतिसहस्राधिकाः विद्यार्थी लाभान्विताः भविष्यन्ति। सह, पञ्चसप्ततिः “मुख्यमन्त्री अभ्युदय संयुक्तविद्यालयाः” अपि विकसिताः भवन्ति, यत्र आधुनिकसुविधाभिः सह गुणवत्तायुक्ता शिक्षा प्रदीयते।

बालिकाशिक्षायाः सुदृढीकरणं कृतम्। कस्तूरबागान्धीबालिकाविद्यालययोजनायाः अन्तर्गतं सप्तशतषट्चत्वारिंशत् विद्यालयाः सञ्चालिताः, ये षष्ठीकक्षातः द्वादशकक्षापर्यन्तं उच्चीकृताः। एतेषु सप्ताशीतिसहस्रषट्शतसप्तचत्वारिंशदधिकाः बालिकाः नामाङ्किताः। स्मार्टकक्षा, सूचना-प्रौद्योगिकी-प्रयोगशाला, आत्मरक्षणप्रशिक्षणं क्रीडाक्रियाश्च माध्यमेन बालिकानां सर्वाङ्गीणविकासः सुनिश्चितः।

प्रधानमन्त्री-श्री-योजनायाः तथा शिक्षाधिकारनियमस्य अन्तर्गतं अपि अवसराः प्रदत्ताः। अस्य योजनायाः अन्तर्गतं प्रदेशस्य एकसहस्रसप्तशतद्वाविंशतिः विद्यालयाः समाविष्टाः, यत्र स्मार्टकक्षा, प्रौद्योगिकीप्रयोगशालाः, क्रीडासुविधाश्च विकसिताः। शिक्षाधिकारनियमस्य अन्तर्गतं वर्षे २०२४–२५ मध्ये १.६५ लक्ष तथा २०२५–२६ मध्ये १.८५ लक्ष बालकानां निजीविद्यालयेषु निःशुल्कप्रवेशः कृतः, येन वञ्चितवर्गस्य बालकानां उत्तमशिक्षालाभः सुनिश्चितः।

हिन्दुस्थान समाचार