Enter your Email Address to subscribe to our newsletters

अनूपपुरम्, 20 अप्रैलमासः (हि.स.)। मध्यप्रदेशस्य अनूपपुरजिल्लायां स्थिते इन्दिरागान्धीराष्ट्रियजनजातीयविश्वविद्यालये अमरकण्टके विश्वविद्यालयस्य वरिष्ठप्राध्यापकः प्रो. अवधेशकुमारशुक्ल सोमवासरे कार्यवाहककुलपतिपदस्य दायित्वं स्वीकृतवान्। नियमितकुलपतिनियुक्तेः पर्यन्तं सः एतस्य दायित्वस्य निर्वहनं करिष्यति।
ज्ञायते यत् पूर्वः प्रभारीकुलपतिः प्रो. ब्योमकेशत्रिपाठी उड़ीसाराज्यस्य सम्बलपुरस्थे गङ्गाधरमेहरविश्वविद्यालये कुलपतित्वेन नियुक्तः। प्रो. शुक्लः शिक्षाक्षेत्रे स्वस्य उत्कृष्टसेवाभिः, शोधकार्यैः, समर्पितशैक्षणिकयोगदानेन च प्रसिद्धः अस्ति। विश्वविद्यालयपरिवारे सः सर्वमान्यः लोकप्रियश्च प्राध्यापकः इति ज्ञायते। तस्य नेतृत्वे विश्वविद्यालयस्य शैक्षणिकशोधकार्येषु नूतना दिशा प्राप्स्यते इति अपेक्षा व्यक्ता।
पदभारग्रहणसमये प्रो. शुक्लः प्रधानमन्त्रिणः नरेन्द्रमोदिनः विचारान् उद्धृत्य अवदत् यद् “मानवजीवनं परोपकाराय निर्मितम्। पदं न महान् भवति, कार्यमेव महान् भवति। वयं यत्र कुत्रापि पदे स्थिताः स्याम, अस्माकं प्रमुखः ध्येयः मानवसेवा एव भवेत्।”
तेन अपि उक्तं यत् विश्वविद्यालयस्य सर्वे विद्यार्थी तस्य कृते स्वसन्ततिवत् सन्ति, सः च स्वं तेषां अभिभावकरूपेण मन्यते। विश्वविद्यालयस्य शैक्षणिकतथा अशैक्षणिककर्मचारिणः प्रो. शुक्लं कार्यवाहककुलपतित्वेन पदभारग्रहणस्य निमित्तं अभिनन्दनं शुभाशंसाश्च अयच्छन्। प्रो. शुक्लः सर्वेभ्यः कृतज्ञतां व्यक्तवान्।
हिन्दुस्थान समाचार