Enter your Email Address to subscribe to our newsletters

-हरित यात्रा थीम-अन्तर्गते खाद्य सुरक्षा विभागस्य अभियानं शुभारब्धम्
देहरादूनम्, 20 अप्रैलमासः (हि.स.)।चारधामयात्राकाले तीर्थयात्रिकेभ्यः स्वच्छं शुद्धं च भोजनं प्रदातुं खाद्यसंरक्षण-औषधिप्रशासनविभागेन व्यापकाः सिद्धताः आरब्धाः। विभागेन यात्रामार्गे शीघ्रप्रतिक्रियादलानि चलित-भोजनसुरक्षावाहनानि च नियुक्तानि, येन खाद्यगुणवत्तायाः नियमितपरीक्षणं तथा शिकायतानां शीघ्रनिवारणं कर्तुं शक्यते।
मुख्यमन्त्रिणः पुष्करसिंहधामिनो ‘हरितचारधामयात्रा’ इति दृष्ट्या अन्तर्गतं विभागेन यात्रामार्गस्य प्रमुखनगरेषु भोजनालयस्वामिभिः सह प्रशिक्षणकार्यशालाः आयोज्यन्ते। आवर्तनपद्धत्या खाद्यसुरक्षाधिकारिणां नियुक्तिः कृता, ये भोजनस्य गुणवत्तां सुनिश्चितयन्ति। राज्यस्य खाद्यसंरक्षणऔषधिप्रशासनस्य आयुक्तेन सचिनकुर्वे इत्यस्य निर्देशेन अद्यावधि उत्तरकाशी, श्रीनगरं, देवप्रयागः, चम्बा, रुद्रप्रयागः इत्यादिषु स्थानेषु द्विशताधिकपञ्चाशत् व्यापाऱिणः प्रशिक्षिताः। अस्मिन् प्रशिक्षणे स्वच्छता, अमिश्रितभोजनं स्वास्थ्यसंगतं च आहारं प्रति विशेषः बलः दत्तः।
उपायुक्तेन गणेशकण्डवालेन उक्तं यत् प्रशिक्षणकाले भोजनालयस्वामिभ्यः तैलस्य लवणस्य शर्करायाश्च सीमितप्रयोगः कर्तुं निवेदितम्, येन मधुमेह उच्चरक्तचापपीडितानां यात्रिकाणां सुविधा भवेत्। सह ‘ईटराइट्’ इति अभियाने अन्तर्गतं तैलस्य पुनःप्रयोगः न्यूनः कर्तुं, तत् जैव-इन्धनार्थं प्रदातुं च निर्देशाः दत्ताः।
मुख्यमन्त्रिणा उक्तं यत् राज्यसर्वकारस्य लक्ष्यं तीर्थयात्रिकेभ्यः शुद्धभोजनं स्वच्छपर्यावरणं च प्रदातुम्, तथा च एकवारोपयोग्यप्लास्टिक इत्यस्य प्रयोगं न्यूनं कृत्वा ‘न्यूनय, पुनरुपयुज्य, पुनर्चक्रय’ इति सिद्धान्तस्य प्रसारणं कर्तुम्।
हिन्दुस्थान समाचार