Enter your Email Address to subscribe to our newsletters

वाराणसी, 20 अप्रैलमासः (हि. स.)।वाराणस्यां चेतगञ्जप्रदेशस्थिते महर्षिज्ञानानन्दमहाराजसभागारे आर्यमहिलास्नातकोत्तरमहाविद्यालये अन्ताराष्ट्रियरामायणवैदिकशोधसंस्थानं अयोध्या तथा आर्यमहिलानागरमलमुरारकामॉडलविद्यालयः इत्येतयोः संयुक्ततत्त्वावधानेन नारीशक्तिवन्दनकार्यक्रमस्य अन्तर्गतं ‘सीतातत्त्वपरिसंवादः तथा रामायणशक्तितत्त्वोत्सवः’ इत्यस्य परिप्रेक्ष्ये एकदिवसीया संगोष्ठी, संभाषणस्पर्धा तथा सांस्कृतिकोत्सवस्य शुभारम्भः अभवत्।
मुख्यातिथिरूपेण भाजपा महानगराध्यक्षः प्रदीपअग्रहरिः उक्तवान् यत् माता सीतायाः व्यक्तित्वं केवलं त्यागस्य प्रतिमूर्ति न, अपि तु सा धैर्यस्य, साहसस्य आत्मसम्मानस्य च परमं शिखरम् अस्ति, या युगानुयुगं भारतीयनारीणां शक्तिं प्रदत्तवती। तेन उक्तं यत् ‘सीतातत्त्वम्’ वस्तुतः शक्तितत्त्वमेव अस्ति। सा विदुषी अस्ति, रामस्य सहधर्मिणीभूत्वा शैलशिलावत् दृढतया स्थितवती शक्तिरूपा च। महाभारतकाले आरभ्य महिलाः स्वअधिकाराणां प्राप्तये संघर्षस्य प्रेरणां लभन्ते। नारी समाजं परिष्कर्तुं समर्था अस्ति। अद्य अस्मिन् अवसरे अत्र आगमनस्य अवसरं प्राप्तवान् अस्मि, तस्मात् आयोजकमण्डलाय धन्यवादः, उपस्थितानां सर्वासां नारीशक्तीनां च शुभाशंसाः।
कार्यक्रमसंयोजिका पूजादिक्षिता स्वसम्बोधने उक्तवती यत् उत्तरप्रदेशस्य सांस्कृतिकमन्त्रालयात् एषः कार्यक्रमः वाराणस्यां आर्यमहिलाविद्यालयाय प्रदत्तः, एतत् अस्माकं गौरवस्य विषयः अस्ति। अद्य अत्र उपस्थितासु बालिकासु काचित् भविष्ये निर्णायकभूमिकां वक्ष्यति। अस्माभिः सर्वैः अनुरोधः यत् या सरकारः महिलानां हिताय कार्यं करिष्यति, वयं तस्याः समर्थनं करिष्यामः।
कार्यक्रमस्य आरम्भः जयेंद्रकुमारः अन्ताराष्ट्रियरामायणवैदिकशोधसंस्थानस्य अयोध्यायाः निदेशकः तथा प्रो जयामिश्रा दीपप्रज्वलनं कृत्वा कृतवन्तौ। अस्मिन् अवसरे संभाषणस्पर्धायां आर्यमहिला पीजी महाविद्यालयस्य तथा आर्यमहिला एनएम मॉडेल विद्यालयस्य छात्र्यः भागं गृहीतवन्त्यः। काव्यार्चने कवयित्री अंजूचौबे तथा करूणासिंह इत्येताभ्यां कवितापाठेन सीतातत्त्वपरिसंवादस्य रामायणशक्तेः च माध्यमेन नारीणां विविधरूपाणि प्रस्तुतानि, येन उपस्थिताः जनाः अत्यन्तं प्रभाविताः अभवन्।
---------------
हिन्दुस्थान समाचार