सर्वे नागरिकाः मतदानं कुर्युः  -शुभेंदु अधिकारी
कोलकाता, 20 अप्रैलमासः (हि.स. )। पश्चिम-बङ्गाल-विधानसभा-निर्वाचने भारतीय जनता पार्टी (भाजपा)-दलस्य वरिष्ठ-नेता तथा भवानीपुर-विधानसभा-क्षेत्रस्य प्रत्याशी शुभेंदु अधिकारी उक्तवान् यत् सर्वे नागरिकाः कस्यचित् भयस्य अभावेन मतदानं कुर्वन्तु। स्वतन्त
कार्यक्रम को संबोधित करते हुए सुवेंदु अधिकारी। चित्र में नारायण जैन, रामानंद रुस्तगी, रंजीत अग्रवाल और अन्य परिलक्षित हैं।


कोलकाता, 20 अप्रैलमासः (हि.स. )।

पश्चिम-बङ्गाल-विधानसभा-निर्वाचने भारतीय जनता पार्टी (भाजपा)-दलस्य वरिष्ठ-नेता तथा भवानीपुर-विधानसभा-क्षेत्रस्य प्रत्याशी शुभेंदु अधिकारी उक्तवान् यत् सर्वे नागरिकाः कस्यचित् भयस्य अभावेन मतदानं कुर्वन्तु। स्वतन्त्र-निष्पक्ष-निर्वाचनस्य सुनिश्चित्यर्थं भारत निर्वाचन आयोग द्वारा अभूतपूर्व-व्यवस्था कृता अस्ति। सः इंडियन काउंसिल फॉर कल्चरल रिलेशंस संस्थायां भवानीपुर-नागरिकाणां व्यावसायिकानां च सभायां सम्बोधनं कुर्वन् आसीत्।

अस्मिन् अवसरे सामाजिक-कार्यकर्ता नारायण-जैन (एडवोकेट), सीए रामानन्द-रुस्तगी (आरसीएम-अध्यक्षः) तथा सीए रञ्जीत-कुमार-अग्रवाल (आरसीएम-सचिवः) अपि स्व-विचारान् अभिव्यक्तवन्तः। सर्वे अपि शुभेंदु अधिकारी पक्षे मतदानं कर्तुं जनान् आहूतवन्तः।

अस्य कार्यक्रमस्य आयोजनं ‘राष्ट्रीय-चेतना-मञ्च’ (आरसीएम) तथा ‘खोला-हवा’ इत्येताभ्यां कृतम्। अस्मिन् अवसरे एडवोकेट रामदेव-काकरा, डॉ. अञ्जुला-बिनायकिया, वरिष्ठ-एडवोकेट मञ्जु-अग्रवाल, सीए प्रकाश-पटवारी, सीए समित-जेना, अशोक-पारख, सीए विकास-पारख, सीएमए अभिषेक-सिंह, सीए एम्- बन्दोपाध्याय, सीए बरुण-सिंह-रॉय, सीएस एस्- बनर्जी, देबाशीष-बारात, शरत-झुनझुनवाला, सोनाली-डे, एडवोकेट रमाकान्त-सुरेलिया, जगत-बैद, सीए पवन-पटोदिया, सीए सुशील-जाजोदिया, सीए नितेश-मोर, सीए श्याम-अग्रवाल तथा अन्ये बहवः जनाः सक्रियतया भागं गृहीतवन्तः। सीए अभिषेक-मुखर्जी धन्यवाद-प्रस्तावं प्रस्तुतवान्।

उल्लेखनीयम् यत् भवानीपुर-क्षेत्रे शुभेंदु अधिकारी इत्यस्य स्पर्धा ममता बनर्जिना सह अस्ति, या तृणमूल कांग्रेस दलस्य प्रमुखा तथा मुख्यमन्त्री अस्ति। सः 2021-विधानसभा-निर्वाचने नंदीग्राम-क्षेत्रात् ममता बनर्जी इत्यां पराजितवान् आसीत्।

---------------

हिन्दुस्थान समाचार