कुमारसभया भवननवीनीकरणाय गणेश पूजा संपादिता
कोलकाता, 20 अप्रैलमासः (हि.स.)।अक्षय-तृतीया-पुण्य-मुहूर्ते श्री-बड़ाबाजार-कुमारसभा-पुस्तकालयस्य नूतन-भवनस्य, विवेकानन्द-मार्ग-स्थितस्य भवनस्य नवीनीकरण-कार्यस्य शुभारम्भः अभवत्। अस्मिन् उपलक्ष्ये प्रथमपूज्यस्य भगवान् श्रीगणेशस्य विद्वद्भिः पण्डितैः
कुमार सभा भवन नवीनीकरण हेतु गणेश पूजा मैं शामिल संस्था के सदस्य


कोलकाता, 20 अप्रैलमासः (हि.स.)।अक्षय-तृतीया-पुण्य-मुहूर्ते श्री-बड़ाबाजार-कुमारसभा-पुस्तकालयस्य नूतन-भवनस्य, विवेकानन्द-मार्ग-स्थितस्य भवनस्य नवीनीकरण-कार्यस्य शुभारम्भः अभवत्।

अस्मिन् उपलक्ष्ये प्रथमपूज्यस्य भगवान् श्रीगणेशस्य विद्वद्भिः पण्डितैः वैदिक-मन्त्रैः सह विधिपूर्वकं पूजनं हवनं च सम्पन्नम्।

अस्मिन् अवसरि कुमारसभा-पुस्तकालयस्य पदाधिकारीणः कार्यसमितेः सदस्याश्च सहभागिनः अभवन्। उपाध्यक्षः भागीरथ-चाण्डकः, मन्त्री बंशीधर-शर्मा, कोषाध्यक्षः शनन्द-कुमार-लढा तथा अरुणप्रकाश-मल्लावत, संजय-रस्तोगी, रामचन्द्र-अग्रवाल, भागीरथ-सारस्वत, चन्द्रकुमार-जैन, मनीष-जैन, रामपुकार-सिंह, मनोज-काकड़ा, श्रीमोहन-तिवारी, गोविन्द-जैथलिया, नरेश-काकड़ा प्रभृतयः विशेषतः सक्रियाः आसन्।

पुस्तकालयस्य प्रतिनिधित्वेन अध्यक्षः महावीर-बजाज तथा गायत्री-बजाज इत्येतौ विधिवत् पूजायाः कर्तारौ अभवताम्।

ततः परं कारीगराणां निर्माण-सम्बद्ध-उपकरणानां पूजनं कृतम्, औपचारिकरूपेण च निर्माण-कार्यस्य श्रीगणेशः कृतः।

-------------------

हिन्दुस्थान समाचार