Enter your Email Address to subscribe to our newsletters

प्रयागराजः, 21 अप्रैलमासः (हि.स.)।
उत्तरप्रदेशस्य प्रयागराजनगरे केन्द्रसरकारेण प्रारब्धस्य “अन्नपूर्णाभवन” योजनायाः निर्माणकार्यं प्रारब्धम् अस्ति। जनपदे चतुस्त्रिंशत् (३४) अन्नपूर्णाभवनानां निर्माणकार्यं आरब्धम् अस्ति। एतेषां निर्माणार्थं उत्तरदायिभ्यः अधिकारिभ्यः भूमेः उपलब्धतां सुनिश्चितं कर्तुं निर्देशाः दत्ताः सन्ति।
उपायुक्तः श्रमरोजगारविभागस्य गुलाबचन्द इत्यनेन उक्तं यत् वित्तीयवर्षे २०२५-२६ अन्तर्गतं विभागीयबजटेन निर्मीयमाणानां अन्नपूर्णाभवनानां शीघ्रं समापनं कर्तुं निर्देशाः प्रदत्ताः। सह एव मनरेगा योजनायाः अन्तर्गतं प्रस्तावितानां अष्टषष्टिः (६८) अन्नपूर्णाभवनानां मध्ये येषां कार्यं प्रारब्धम् अस्ति, तानि निर्धारितकालसीमायां पूर्णानि कर्तुं तथा शेषेषु शीघ्रमेव कार्यारम्भं कर्तुं सम्बन्धिताधिकारिभ्यः आदेशाः दत्ताः।
तेन उक्तं यत् आगामिवित्तीयवर्षे २०२६-२७ कृते प्रत्येकविकासखण्डे दश-दश अन्नपूर्णाभवनानां निर्माणार्थं भूमेः चिन्हांकनप्रक्रिया अपि प्रारब्धा अस्ति, यतः आवश्यकतावन्तेभ्यः जनानां उत्तमसुविधाः प्रदातुं शक्यन्ते।
---------------
हिन्दुस्थान समाचार