जेईई मेन-2026 तमे वर्षे प्रथमस्थानी जातश्शुभम कुमारो मुख्यमंत्रिणा सम्राट चौधरिणा वर्धापितः
पटना, 21 अप्रैलमासः (हि.स.)। संयुक्त प्रवेश परीक्षा (जेईई मेन)-२०२६ परीक्षायां बिहार-राज्ये शीर्षस्थानं प्राप्तवान् गया-जिलानिवासी छात्रः शुभम् कुमारः समग्रस्य राज्यस्य यशः वर्धितवान्। अस्य उपलब्धेः निमित्तं मुख्यमन्त्री सम्राट् चौधरी तं अभिनन्द्य
जेईई मेन-2026 तमे वर्षे प्रथमस्थानी जातश्शुभम कुमारो मुख्यमंत्रिणा सम्राट चौधरिणा वर्धापितः


पटना, 21 अप्रैलमासः (हि.स.)। संयुक्त प्रवेश परीक्षा (जेईई मेन)-२०२६ परीक्षायां बिहार-राज्ये शीर्षस्थानं प्राप्तवान् गया-जिलानिवासी छात्रः शुभम् कुमारः समग्रस्य राज्यस्य यशः वर्धितवान्। अस्य उपलब्धेः निमित्तं मुख्यमन्त्री सम्राट् चौधरी तं अभिनन्द्य शुभाशंसाः दत्तवान्।

मङ्गलवासरे सामाजिक-माध्यमे सन्देशं प्रकाशित्य मुख्यमन्त्री उक्तवान् यत् शुभमकुमारस्य एषा सफलता सम्पूर्णबिहारस्य कृते गौरवस्य क्षणः अस्ति। सः एतां सिद्धिं समर्पणस्य, कठोरपरिश्रमस्य उत्कृष्टतायाश्च प्रतीकम् इति निर्दिश्य अवदत् यत् एषा उपलब्धिः नवसंततेः कृते प्रेरणास्रोतः अस्ति। सः सर्वान् सफलविद्यार्थिनः उज्ज्वलभविष्यस्य शुभकामनाः दत्त्वा तान् अग्रे अपि प्रदेशस्य देशस्य च यशः वर्धयितुं प्रेरितवान्।

उल्लेखनीयम् अस्ति यत् राष्ट्रिय परीक्षण एजेन्स्या जेईई मेन २०२६ (प्रथमसत्रं तथा द्वितीयसत्रम्) संयुक्तपरिणामः घोषितः। अस्मिन् परीक्षायां शुभमकुमारः शतप्रतिशतं (१०० पर्सेन्टाइल) प्राप्त्वा बिहारराज्ये प्रथमस्थानं लब्धवान्, समग्रदेशे च षष्ठं स्थानं प्राप्तवान्।

शुभमस्य प्रदर्शनं प्रथमसत्रे अपि उत्कृष्टम् आसीत्, यत् सः अन्तिमपरिणामे अधिकं सुधार्य उत्तमसफलतां प्राप्तवान्। अधुना सः स्वस्य अग्रिमलक्ष्यस्य जेईई एड्वान्स परीक्षायाः तैयारीं करोति। तस्य स्वप्नम् आईआईटी मुम्बई संस्थायां कम्प्यूटरविज्ञानविषये प्रवेशं प्राप्तुम् अस्ति।

अस्मिन् वर्षे जेईई मेन २०२६ परीक्षायां कुलम् षड्विंशतिः (२६) अभ्यर्थिनः शतप्रतिशतं प्राप्तवन्तः, किन्तु तेषु काचिदपि महिला अभ्यर्थिनी नास्ति। सर्वे पूर्णाङ्कप्राप्ताः छात्राः एव सन्ति। एजेन्स्या अनुसारं अस्य परीक्षायाः आधारेण द्विलक्षपञ्चाशत्सहस्राधिकद्विशत् (२,५०,१८२) अभ्यर्थिनः जेईई एड्वान्स परीक्षायै पात्राः घोषिताः।

शुभमकुमारस्य एषा उपलब्धिः न केवलं तस्य कुटुम्बस्य जिलस्य च, अपि तु सम्पूर्णबिहारस्य कृते प्रेरणास्रोतः अभवत्।-------------

हिन्दुस्थान समाचार