Enter your Email Address to subscribe to our newsletters

रायपुरम्21 अप्रैलमासः (हि.स.)।
छत्तीसगढराज्यस्य मुख्यमन्त्री विष्णुदेवसाय अद्य मङ्गलवासरे जशपुरजनपदस्य भ्रमणं भविष्यति।
निर्धारितसमयानुसारं मुख्यमन्त्री अद्य अपराह्णे द्वादशवादने रायपुरविमानपत्तनं प्राप्स्यति तथा राज्यविमानेन जशपुरं प्रति प्रस्थितः भविष्यति। अपराह्णे एकवादने सः जशपुरस्य आगडीह एअरस्ट्रीप् इत्यत्र अवतरणं करिष्यति। ततः अनन्तरं अपराह्णे एकवादनत्रिंशन्मिनिटे करमगढं गमिष्यति, यत्र सः एकस्मिन् निजकार्यक्रमे सहभागं करिष्यति।
ततः अनन्तरं प्रायः त्रिवादने ग्रामे ढोढीबाहर इत्यत्र आयोजिते कार्यक्रमे सहभागं करिष्यति। सायं षड्वादने ग्रामे बन्दरचुआ इत्यत्र आयोजिते शोककार्यक्रमे अपि सहभागं करिष्यति।
ततः अनन्तरं बन्दरचुआग्रामात् स्वस्य निजनिवासं बगिया इत्यत्र प्रति प्रस्थितः भविष्यति।
हिन्दुस्थान समाचार