मुख्यमंत्री किसान सम्मान निधियोजनायाः राज्य स्तरीय समारोहो बुधवासरे
जोधपुरम्, 21 अप्रैलमासः (हि.स.)। मुख्यमन्त्रिणो भजनलाल शर्मणो नेतृत्वे राज्य-सर्वकारः कृषकानां जीवनं सरलम् सम्मानयुक्तं च कर्तुं निरन्तरं प्रयतते। अस्यां दिशि महत्त्वपूर्णया पहलया “मुख्यमन्त्री-कृषक-सम्मान-निधि-योजना” प्रवर्तिता अस्ति। अस्याः योजन
jodhpur


जोधपुरम्, 21 अप्रैलमासः (हि.स.)। मुख्यमन्त्रिणो भजनलाल शर्मणो नेतृत्वे राज्य-सर्वकारः कृषकानां जीवनं सरलम् सम्मानयुक्तं च कर्तुं निरन्तरं प्रयतते। अस्यां दिशि महत्त्वपूर्णया पहलया “मुख्यमन्त्री-कृषक-सम्मान-निधि-योजना” प्रवर्तिता अस्ति। अस्याः योजनायाः माध्यमेन कृषकाः आर्थिक-सहाय्यं प्राप्य स्वजीवनं सुगमं कृतवन्तः। अद्यावधि पञ्च-किस्तीनां माध्यमेन कृषकानां कृते २७२६ कोटि-रूप्यकाणां राशिः हस्तान्तरितोऽस्ति।भजनलाल शर्मा बुधवासरे ओसियां-स्थले राज्यस्तरीय-समारोहे योजनायाः षष्ठीं किस्तिं निर्गमयिष्यति। अस्मिन् अवसरे राज्यस्य ६६.५६ लक्ष-कृषकाणां कृते ६६५ कोटि-रूप्यकाणां अधिका राशिः हस्तान्तरिता भविष्यति।

ज्ञेयं यत् भजनलाल शर्मा ३० जून २०२४ दिनाङ्के टोंक-नगरे अस्याः योजनायाः शुभारम्भं कृतवान्। तदा प्रथम-किस्त्यां ६५ लक्षाधिक-कृषकाणां कृते प्रायः ६५३ कोटि-रूप्यकाणि तेषां बैंक-खातेषु प्रेषितानि, यत्र प्रत्येकं कृषकं प्रति १००० रूप्यकाणि दत्तानि। अनन्तरं १३ दिसम्बर २०२४ दिनाङ्के द्वितीय-तृतीय-किस्त्यौ एकत्र १०००-१००० रूप्यकाणि दत्वा ७०२ कोटि-रूप्यकाणि हस्तान्तरितानि।

चतुर्थराशिः १८ अक्टूबर २०२५ दिनाङ्के धनतेरस-दिने नदबई-नगरे निर्गता, यस्यां ७१८ कोटि-रूप्यकाणि दत्तानि। ततः २२ जनवरी २०२६ दिनाङ्के पञ्चमी-किस्तिः सिरोही-नगरे निर्गता, यस्यां ६५३ कोटि-रूप्यकाणि कृषकाणां कोषेषु प्रेषितानि।

प्रधानमंत्री किसान सम्मान निधि योजना अन्तर्गतं कृषकानां प्रति वार्षिकं ६००० रूप्यकाणि त्रिषु समभागेषु दीयन्ते। तेषां अतिरिक्त-सहाय्याय राज्य-सरकारेण एषा मुख्यमन्त्री-योजना प्रवर्तिता, यस्यां ३००० रूप्यकाणां वार्षिक-अतिरिक्त-सहाय्यं प्रदीयते। एवं राज्यस्य कृषकाः ६००० रूप्यकाणां स्थानं प्रति वर्षं ९००० रूप्यकाणि प्राप्नुवन्ति। एतेन अतिरिक्त-धनेन कृषकाः स्वकृषि-सम्बद्ध-आवश्यकतानां पूर्तिं कुर्वन्ति तथा दैनन्दिन-जीवनस्य आवश्यकताः अपि पूरयितुं शक्नुवन्ति। राज्य-सरकारः एतां राशिं क्रमशः १२,००० रूप्यकाणि प्रति वर्षं कर्तुं प्रतिबद्धा अस्ति।

येषां कृषकाणां भूमिः १ फरवरी २०१९ दिनात् पूर्वमेव अस्ति ते अस्याः योजनायाः पात्राः सन्ति। अस्य दिनस्य अनन्तरं केवलं वंशपरम्परया प्राप्त-भूमिधारिणः एव लाभं प्राप्नुवन्ति। कृषियोग्या भूमिः सा मन्यते यत्र कृषिकार्यं क्रियते। “कृषक-परिवार” इति परिभाषायां पति, पत्नी, अल्पवयस्क-सन्तानानि च अन्तर्भवन्ति, अतः एकस्मिन् परिवारस्य केवलं एकः एव सदस्यः लाभाय पात्रः।

योजनायाः लाभं प्राप्तुं कृषकाः स्वयमेव भारत-सरकारेण निर्मिते पीएम-किसान-पोर्टले पञ्जीकरणं कर्तुं शक्नुवन्ति, अथवा समीपस्थे कॉमन-सर्विस-सेंटर् तथा ई-मित्र-केन्द्रयोः माध्यमेन अपि पञ्जीकरणं कर्तुं शक्यते। पञ्जीकरणार्थं आधार-पत्रम्, कृषकस्य फार्मर-आईडी, डीबीटी-सक्षम-वित्तकोषश्च अनिवार्यः। साथै, आधार-संयुक्तं दूरभाष-सङ्ख्या अपि आवश्यकम्।

हिन्दुस्थान समाचार