Enter your Email Address to subscribe to our newsletters

तेहरान-वाशिंगटन-इस्लामाबाद-नगराणि, २१ अप्रैलमासः (हि.स.)।अमेरिका-ईरानयोः मध्ये अद्य समाप्तुं नियोजितः संघर्ष-विरामः द्वाभ्यां दिनाभ्यां वर्धितः अस्ति। अमेरिकीय-राष्ट्रपतिः डोनाल्ड-ट्रम्पः एतां घोषणां स्वयमेव कृतवान्। अस्मिन् समये पाकिस्तानस्य राजधानी इस्लामाबाद-नगरे अमेरिका-ईरानयोः वार्तायाः द्वितीय-चरणस्य आरम्भाय कूटनीतिक-प्रयत्नाः तीव्रतया क्रियमाणाः सन्ति। अद्यावधि ईरानेन कश्चन निश्चयात्मकः संकेतः न दत्तः यत् सः स्वप्रतिनिधिमण्डलं इस्लामाबादं प्रेषयति। अपरतः अमेरिकीय-प्रतिनिधिमण्डलं स्वदेशात् पाकिस्तानं प्रति प्रस्थितम् अस्ति।सीएनएन, सीबीएस-न्यूज, अल-जजीरा, जियो-न्यूज-इत्यादीनां प्रतिवेदनानुसारं ट्रम्पः सूचितवान् यत् ईरान-सह संघर्ष-विरामः वस्तुतः द्वाभ्यां दिनाभ्यां वर्धितः अस्ति तथा च इदानीं वाशिंगटन-कालमानानुसारं बुधवासरस्य सायंकालपर्यन्तं प्रवर्तिष्यते। ब्लूमबर्ग-संस्थया सह दूरभाष-साक्षात्कारस्य समये ट्रम्पः उक्तवान् यत् अयं संघर्ष-विराम-सन्धिः, यः पूर्वं २१ अप्रैलमासस्य रात्रौ ८ वादने (पूर्वीय-कालमानानुसारम्) समाप्तुं नियोजितः आसीत्, अधुना सप्ताह-मध्यपर्यन्तं स्थास्यति। सः चेतावनीम् अपि दत्तवान् यत् यदि नूतन-समयसीमायाः पूर्वं कश्चित् सन्धिः न सिध्यति तर्हि अस्य अवधेः अधिक-विस्तारः अत्यन्तं कठिनः भविष्यति।
ट्रम्पः सोमवासरे उक्तवान् यत् पाकिस्ताने सम्भावितायाः द्वितीय-चरण-वार्तायाः पूर्वं ईरानस्य शीर्ष-नेतृत्वेन सह चर्चा करिष्यते। ‘द जॉन फ्रेडरिक्स शो’ इत्यस्मिन् कञ्जर्वेटिव्-रेडियो-कार्यक्रमे लघु-दूरभाष-साक्षात्कारस्य समये सः विश्वासं व्यक्तवान् यत् तेहरान-नगरं वार्ता-मञ्चं प्रति अवश्यम् आगमिष्यति। सः उक्तवान् यत् यदि तथा न भवति तर्हि तस्य गम्भीराः परिणामाः भविष्यन्ति। ट्रम्पः आशां व्यक्तवान्—“ईरानः सन्धिं करिष्यति, स्वदेशं पुनः प्रतिष्ठापयिष्यति, तथा च तस्यां स्थितौ तस्य समीपे परमाणु-शस्त्राणि न भविष्यन्ति।”
साक्षात्कारस्य समाप्तेः पूर्वं ट्रम्पः ईरान-विरुद्धं सैन्य-कार्यवाह्याः औचित्यं समर्थितवान्। तेन उक्तं यत् अमेरिकायाः समीपे अन्यः विकल्पः न आसीत्। तेन ईरान-विरुद्धं प्रवर्तमानं निरोधनम् अपि समर्थितम्, यत् तस्मिन् आर्थिक-बलं वर्धयति, तथा च सा अनुवर्तिष्यते इति सः अवदत्। तेन उक्तं यत् बलस्य अनुभवे सति एव ईरानः पुनः वार्ता-मञ्चं प्रति प्रत्यागमिष्यति, तथा अमेरिका तं तत्र आगन्तुं बाध्यं करिष्यति।
ईरानस्य विदेशमन्त्री अब्बास-अराघची पाकिस्तानी-समकक्षेण इशाक-डार-नाम्ना सह दूरभाषेण उक्तवान् यत् तस्य देशः सर्वेषां पक्षाणां विषये विचारं कुर्वन् अस्ति तथा अग्रे कथं गन्तव्यम् इति विषये निर्णयं करिष्यति। ईरानी-विदेश-मन्त्रालयेन उक्तं यत् अमेरिकायाः उद्दीपक-चेष्टाः तथा निरन्तरं संघर्ष-विराम-उल्लङ्घनानि स्थितिं अधिकं क्लिष्टां कृतवन्ति। प्रमुख-वार्ताकारः तथा ईरानी-संसदः अध्यक्षः मोहम्मद-गालिबफः उक्तवान् यत् ट्रम्पः वार्ता-मञ्चं समर्पण-मञ्चे परिवर्तयितुं वा नूतन-युद्धं प्रज्वालयितुं युक्तिं स्थापयितुं प्रयतते।
अस्मिन् मध्ये तेहरान-नेतृत्वेन स्पष्टं कृतं यत् सञ्चेतना-छायायां वार्ता न भविष्यति। ट्रम्पः अपि स्वमतं दृढतया प्रकाशितवान्। तेन उक्तं यत् ईरानी-बन्दरगाहेषु निरोधनं तावत् यावत् तेहरानः कस्यचित् सन्धेः विषये सहमतिं न ददाति, तावत् अवश्यम् अनुवर्तिष्यते। लेबनान-इजराइल-देशयोः मध्येऽपि शत्रुता-समापनाय गुरुवासरे वाशिंगटन-नगरे वार्ता भविष्यति, यदा इजराइलः दक्षिण-लेबनान-प्रदेशे निरन्तरं विस्फोटक-वर्षणं करोति।
हिन्दुस्थान समाचार / अंशु गुप्ता