Enter your Email Address to subscribe to our newsletters

नवदिल्लीनगरम्, २१ अप्रैलमासः (हि.स.)। काङ्ग्रेस-पक्षस्य वरिष्ठ-नेता मल्लिकार्जुन-खरगे इत्यस्य कस्यचित् वक्तव्यस्य विषये भाजपा-नेता आदित्यः तीव्र-प्रतिक्रियां दत्तवान्।
सः उक्तवान् यत् खरगे-महोदयस्य उक्तिः लोकतन्त्रस्य स्वस्थ-परम्पराणां विपरीता अस्ति तथा च सा राजनैतिक-संवादस्य स्तरं न्यूनीकरोति। तेन आरोपः कृतः यत् विपक्षः निरन्तरं असन्तुलित-भाषणेन जनमानसे भ्रमं सृजति।
आदित्येन उक्तं यत् लोकतन्त्रे मतभेदः स्वाभाविकः अस्ति, किन्तु तस्य अभिव्यक्तिः मर्यादित-रूपेण एव भवितव्या।
हिन्दुस्थान समाचार / अंशु गुप्ता