Enter your Email Address to subscribe to our newsletters

शिमला, 21 अप्रैलमासः (हि.स.)।
शिमला-राजधानी-नगरे दृष्टिहीन-संघस्य आन्दोलनं पुनः तीव्रं जातम्। स्वयाचनाभिः सह संघस्य सदस्याः मङ्गलवासरे प्रदेश-सचिवालयस्य बहिः उग्रं प्रदर्शनं कृतवन्तः। अस्मिन् अवसरे बहवः प्रदर्शनकारिणः वस्त्र-विहीन-ऊर्ध्वदेहाः भूत्वा धरनायां उपविष्टाः, चक्का-जामं च कृतवन्तः, येन किञ्चित्कालं यावत् यातायातः प्रभावितः अभवत्।
संगठनस्य कथनानुसारं ते गत-918-दिनात् आरभ्य निरन्तरं धरनां कुर्वन्ति, अधुना च एषः तेषां त्रिंशत्तमः (30) चक्का-जामः अस्ति। तेषां मुख्यः विषयः बैकलॉग-नियुक्तीनां पूरणं अस्ति। प्रदर्शनकारिणः आरोपं कुर्वन्ति यत् सरकारः तेषां मागणां गम्भीरतया न गृह्णाति तथा अद्यावधि कश्चन दृढःउपायः न कृतः।
दृष्टिहीन-संघस्य सदस्यः राजेश ठाकुर अवदत् यत् ते केवलं स्व-संवैधानिक-अधिकारान् याचन्ते, किन्तु तेषां वचनं श्रोतुं सर्वकारः सज्जा नास्ति। सः अपि उक्तवान् यत् अद्यावधि मुख्यमन्त्रिणः पक्षतः वार्तालापार्थं काचित् पहलः न कृता, येन संगठनस्य अन्तः असन्तोषः वर्धते।
संगठनेन सर्वकाराय एक-सप्ताहस्य अल्टीमेटम् दत्तम्। तेषां कथनम् अस्ति यत् यदि अस्य अवधेः अन्तर्गतं मुख्यमन्त्रिणा सह बैठकायाः लिखित-आश्वासनं न लभ्यते, तर्हि ते मुख्यमन्त्रिणः सरकारी-आवासस्य घेरावं करिष्यन्ति। तेन सह ते चेतावनीं दत्तवन्तः यत् आन्दोलनं अधिकं विस्तारितं करिष्यन्ति, प्रदेशस्य सर्वेभ्यः दिव्याङ्ग-जनाः शिमलां आगमिष्यन्ति।
प्रदर्शनकारिणः अपि उक्तवन्तः यत् यदि तेषां याचनाः न स्वीक्रियन्ते, तर्हि ते अधिक-कठोर-उपायान् अवलम्बितुं बाध्याः भविष्यन्ति। ते अपि अवदन् यत् यथा अन्येषु विभागेषु नियुक्तयः क्रियन्ते, तथैव दिव्याङ्ग-जनानां कृते अपि नियुक्ति-प्रक्रिया पूर्णा क्रियताम्।
---------------
हिन्दुस्थान समाचार