प्रथमचरणस्य मतदाने षट्त्सु जिल्लासु निर्वाचनायोगस्य विशेषेण दृष्टिः , अत्यंतं संवेदनशीला घोषिता
कोलकाता, 21 अप्रैलमासः (हि.स.)।पश्चिमबङ्गालविधानसभानिर्वाचनस्य २०२६ प्रथमचरणमतदानात् पूर्वं निर्वाचनायोगेन राज्यस्य षट् जनपदाः विशेषनिगराण्यां स्थापिताः सन्ति। आयोगेन एते जनपदाः अतिसंवेदनशीलश्रेण्यां चिह्निताः सन्ति। येषु जनपदेषु विशेषदृष्टिः स्थाप
मुख्य चुनाव अधिकारी मनोज अग्रवाल


कोलकाता, 21 अप्रैलमासः (हि.स.)।पश्चिमबङ्गालविधानसभानिर्वाचनस्य २०२६ प्रथमचरणमतदानात् पूर्वं निर्वाचनायोगेन राज्यस्य षट् जनपदाः विशेषनिगराण्यां स्थापिताः सन्ति। आयोगेन एते जनपदाः अतिसंवेदनशीलश्रेण्यां चिह्निताः सन्ति। येषु जनपदेषु विशेषदृष्टिः स्थापिता अस्ति, तेषु मालदा, मुर्शिदाबाद, बीरभूम, पश्चिममेदिनीपुर, पश्चिमबर्धमान तथा उत्तरदिनाजपुर इत्येते अन्तर्भवन्ति। एषा सूचना निर्वाचनायोगस्य सूत्रेभ्यः प्राप्ता।

सूत्रानुसारं आयोगस्य अधिकारिभिः बङ्गाले गतपञ्चदशवर्षाणां निर्वाचनइतिहासस्य समीक्षणं कृतम्। तदनन्तरं निर्णयः कृतः यत् अस्मिन् वारे कस्यापि प्रकारस्य विवादस्य, हिंसायाः अशान्तेः च निवारणार्थं कठोराणि उपायानि स्वीकर्तव्यानि।

निर्वाचनायोगेन सम्बन्धिताधिकारिभ्यः निर्देशः दत्तः यत् येषां व्यक्तीनां विरुद्धं अजामिनीयधारासु गृहीतवारण्टाः निर्गताः सन्ति, ते शीघ्रमेव गृहीतव्याः। सह एव संभावितोपद्रवकारिणां अशान्तिसृजतां च व्यक्तीनां उपरि अपि सततं दृष्टिः स्थापनीया तथा आवश्यकतायां तान् निरुद्धान् कर्तुं अपि उक्तम्।

आयोगस्य मतम् अस्ति यत् एतेषु षट्सु जनपदेषु पूर्वनिर्वाचनेषु अनेकाः अप्रियघटनाः अभवन्। अस्य कारणात् अस्मिन् वारे अभूतपूर्वा सुरक्षाव्यवस्था आयोज्यते, येन मतदानं पूर्णतया शान्तिपूर्वकं सम्पन्नं भवेत्।

निर्वाचनायोगः पूर्वमेव स्पष्टतया उक्तवान् यत् २०२६ तमे वर्षे विधानसभानिर्वाचनं रक्तपातरहितं, निष्पक्षं, स्वतन्त्रं शान्तिपूर्णं च करिष्यते। अधुना आयोगस्य एषः नूतनः उपायः तस्यैव दिशि एकः महत्त्वपूर्णः प्रयासः इति मन्यते।

हिन्दुस्थान समाचार