Enter your Email Address to subscribe to our newsletters

खड़गपुरम्, 21 अप्रैलमासः (हि.स.)। भारतीय जनता पार्टी इत्यस्य वरिष्ठ-नेता दिलीप घोष उक्तवान् यत् पश्चिम बंगाल-राज्ये तृणमूल कांग्रेस-दलस्य निर्गमनं अधुना निश्चितम् अस्ति। मङ्गलवासरे प्रातः खड़गपुर-नगरे पत्रकारैः सह संवादे सः उक्तवान् यत् राज्ये सत्तापरिवर्तनस्य समयः आगतः अस्ति।
दिलीप-घोषः अवदत् यत् “तृणमूल-कांग्रेस-दलस्य निर्गमनस्य समयः आगतः। अधुना ममता बनर्जी-हस्ते किमपि न अवशिष्टम् अस्ति, तस्याः विदायः निश्चितः।”
सः आरोपं कृतवान् यत् राज्ये जनाः भयपूर्णे वातावरणे जीवनं यापयन्ति तथा मतदानसमये स्वतन्त्रतया मतदानं कर्तुं न शक्नुवन्ति। घोषः अवदत् यत् यदि मतदानकेन्द्राणां उत्तरदायित्वं केन्द्रीय-बलानां हस्ते दत्तं भवति, तर्हि जनाः निश्चिन्ततया मतदानार्थं गमिष्यन्ति।
सः उक्तवान् यद् “यदा मतदान-कक्षाः (बूथाः) केन्द्रीय-बलानां नियन्त्रणे भविष्यन्ति, तदा जनाः शान्तिपूर्वकं मतदानं करिष्यन्ति। अत्र पुलिस् गुंडैः सह मिलित्वा जनान् भयभीतान् कर्तुं प्रयत्नं करोति।”
भाजपा-नेता तृणमूल कांग्रेस-दलस्य आलोचनां कृत्वा अवदत् यत् एषः दलः अधुना समाजविरोधि-तत्त्वानां हस्ते गतः अस्ति। सः अवदत् यत् केवलं कोलाहलं कृत्वा अधुना कश्चित् लाभः न भविष्यति।
सः निर्वाचन आयोग तथा न्यायपालिकायाः अपि प्रशंसां कृतवान्। सः अवदत् यत् उभे संस्थे जनानां कृते न्यायं सुनिश्चितं कर्तुं प्रयत्नं कुर्वतः।
सः अवदत् यद् “अहं निर्वाचन-आयोगाय धन्यवादं दातुम् इच्छामि। यदि केन्द्रीय-बलाः मतदान-केन्द्राणां उत्तरदायित्वं स्वीकुर्वन्ति, तर्हि जनाः शान्तिपूर्वकं मतदानं कर्तुं शक्नुवन्ति।”
हिन्दुस्थान समाचार