Enter your Email Address to subscribe to our newsletters

वाराणसीनगरम्, २१ अप्रैलमासः (हि.स.)। उत्तर-प्रदेशस्य मुख्यमन्त्री योगी-आदित्यनाथः मङ्गलवासरे वाराणसी-नगरे अधिकारिभिः सह सभां कृत्वा नगरस्य चतुर्णां प्रमुख-विकास-कार्याणां प्रगतिं प्रति दृढ-निर्देशान् दत्तवान्।
सभायां सः मणिकर्णिका-घट्टस्य सौन्दर्यीकरणम्, दालमण्डी-मार्गस्य विस्तारीकरणम्, नगरमध्ये निर्मीयमाणस्य रोप-वे तथा क्रिकेट-स्टेडियम इत्येतेषां कार्याणां प्रगतिं मण्डलायुक्तात् एस्. राजलिङ्गम् इत्यस्मात् विस्तरेण पृष्टवान्। मुख्यमन्त्रिणः दृढ-रवम् दृष्ट्वा अधिकारिभिः प्रत्येक-बिन्दोः विस्तृतं विवरणं प्रस्तुतम्।
मुख्यमन्त्रिणा स्पष्टः निर्देशः दत्तः यत् रोप-वे तथा क्रिकेट-स्टेडियम-परियोजनयोः कृते अन्तिम-समय-सीमा निश्चितव्या। तथैव मणिकर्णिका-घट्ट-सौन्दर्यीकरणे तथा दालमण्डी-मार्ग-विस्तारणे कार्याणि तीव्रगत्या अग्रे नेतव्यानि इति सः अवदत्।
सः प्रशासनाय स्पष्टं उक्तवान् यत् वाराणसी-नगरस्य विकास-परियोजनाः विलम्बं विना गुणवत्तायुक्तरूपेण शीघ्रं पूर्णाः कर्तव्याः सन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता