मिशनकर्मयोगी ‘साधनासप्ताह’ मध्ये उत्तरप्रदेशाय देशे प्राप्तं द्वितीयं स्थानम्
- मुख्यमन्त्री योगी आदित्यनाथः अधिकारिभ्यः कर्मचारिभ्यश्च कृतवान् अभिनन्दनम् - प्रदेशस्य 11.3 लक्षं कर्मचारिणः कृतवन्तः न्यूनतमं चतुर्होराणां प्रशिक्षणं सम्पूर्णं लखनऊ, 21 अप्रैलमासः (हि.स.)।उत्तरप्रदेश-सर्वकारेण इन्टीग्रेटेड् गवर्न्मेण्ट् ऑनलाइ
मुख्यमंत्री योगी आदित्यनाथ


- मुख्यमन्त्री योगी आदित्यनाथः अधिकारिभ्यः कर्मचारिभ्यश्च कृतवान् अभिनन्दनम्

- प्रदेशस्य 11.3 लक्षं कर्मचारिणः कृतवन्तः न्यूनतमं चतुर्होराणां प्रशिक्षणं सम्पूर्णं

लखनऊ, 21 अप्रैलमासः (हि.स.)।उत्तरप्रदेश-सर्वकारेण इन्टीग्रेटेड् गवर्न्मेण्ट् ऑनलाइन् ट्रेनिङ्ग् (आईगोट्) कर्मयोगी-मञ्चे देशस्य सम्पूर्णशिक्षणे प्रायः चत्वारिंशत् प्रतिशतस्य योगदानं सुनिश्चितं कृतम्। अस्मिन् अवधौ 14.25 लक्षं कर्मिभिः 1.25 कोटितः अधिकाः शिक्षणहोराः पूर्णाः कृत्वा एकः नूतनः कीर्तिमानः स्थापितः। इयम् उपलब्धिः राज्यस्य कार्मिकाणां सक्रिय-सहभागितायाः, उच्च-स्तरीय-प्रतिबद्धतायाः, अनुशासनस्य च सतत-अधिगमस्य (निरन्तरं शिक्षणस्य) प्रति तेषां सकारात्मक-दृष्टिकोणस्य प्रतिफलम् अस्ति।

मिशन कर्मयोगी साधना सप्ताहस्य (2 तः 10 अप्रैल पर्यन्तम्) अवधौ उत्तरप्रदेशस्य शासकीय-कर्मचारिभिः स्वकार्यक्षमतायां, कार्यक्षेत्रे च व्यवहारे च सकारात्मकं परिवर्तनं प्राप्तम्। उत्तरप्रदेशेन ‘ओवरऑल् बेस्ट् परफॉर्मेन्स्’ श्रेण्यां देशस्य राज्येषु मध्ये द्वितीयं स्थानं प्राप्तम्। इयं उपलब्धिः योगि-सर्वकारस्य दूरदर्शि-नीतीनां, प्रभावि-क्रियान्वयन-तन्त्रस्य, कार्मिकाणां समूह-भावनायाः च समन्वित-प्रयासानां प्रत्यक्षं प्रमाणम् अस्ति।

‘साधना सप्ताहस्य’ अवधौ राज्यस्य 11.3 लक्षतः अधिकैः कर्मचारिभिः न्यूनतमं चतुर्होराणां प्रशिक्षणं सम्पूर्णं कृतम्। इदं शासन-प्रणाल्यां गुणात्मक-सुधारस्य दिशि एकः सशक्तः सङ्केतः अस्ति।

मुख्यमन्त्री योगी आदित्यनाथः अस्याः उपलब्धेः कृते प्रदेशस्य सर्वान् अधिकारि-कर्मचारिणः, सम्बद्ध-विभागान् च नोडल-संस्था ‘उपाम्’ इत्यस्याः समूहम् अभिनन्दितवान्। तेन उक्तं यत् विशेषतः अस्य अभियानस्य सफल-सञ्चालने विभागीय-स्तरे कृतानां समन्वयस्य, निगरान्याः च प्रोत्साहनात्मक-प्रयासानां महत्त्वपूर्णा भूमिका आसीत्, या प्रशंसायोग्या अस्ति।

साधना सप्ताहस्य प्रमुखाः उद्देश्याः

प्रधानमन्त्री नरेन्द्र मोदी महोदयस्य प्रेरणया आयोजिते ‘साधना सप्ताहे’ अवधौ उत्तरप्रदेशेन ज्ञानार्जन-क्षमता-विकासस्य अस्मिन् महत्त्वपूर्णे अभियाने गौरवपूर्णा उपलब्धिः अर्जिता। अस्य त्रयाः मुख्याः उद्देश्याः सन्ति।

1. तकनीकी-दृष्ट्या सुदृढाः सक्षमाश्च भवितुम्।

2. अस्माकं समृद्ध-परम्पराणां सांस्कृतिक-मूल्यानां च सम्यक् अवबोधं विकसितुम्।

3. नागरिकं शासन-प्रक्रियायाः केन्द्रे स्थापयित्वा ठोसम्, प्रभावि च मापनीयं परिणामं प्राप्तुम्। भारतं वर्षं 2047 पर्यन्तम् एकं विकसितं राष्ट्रम् इति रूपेण स्थापितुं या परिकल्पना अस्ति तस्यै सुदृढम् आधारं प्रददति।

---------------

हिन्दुस्थान समाचार