उत्तर-प्रदेशे भीषण-उष्णतया परिषदीय-विद्यालयानां समयः परिवर्तितः, अधुना प्रातः ७:३० वादनात् अपराह्ण १२:३० वादनपर्यन्तं पाठनम् भविष्यति
लखनऊ-नगरम्, २१ अप्रैलमासः (हि.स.)। उत्तर-प्रदेशे मौसम-परिवर्तनस्य कारणेन तापमानं निरन्तरं वर्धते। मूल-शिक्षा-निदेशकः प्रताप-सिंह-बघेलः उष्णतां दृष्ट्वा मङ्गलवासरात् विद्यालय-समये परिवर्तनस्य निर्देशान् प्रदत्तवान्। सर्वेभ्यः मण्डलीय-सहायक-मूल-शिक्ष
परिषदीय_विद्यालय


लखनऊ-नगरम्, २१ अप्रैलमासः (हि.स.)। उत्तर-प्रदेशे मौसम-परिवर्तनस्य कारणेन तापमानं निरन्तरं वर्धते। मूल-शिक्षा-निदेशकः प्रताप-सिंह-बघेलः उष्णतां दृष्ट्वा मङ्गलवासरात् विद्यालय-समये परिवर्तनस्य निर्देशान् प्रदत्तवान्। सर्वेभ्यः मण्डलीय-सहायक-मूल-शिक्षा-निदेशकेभ्यः प्रेषितेषु निर्देशेषु उक्तं यत् मूल-शिक्षा-परिषदः विद्यालयेषु अधुना प्रातः ७:३० वादनात् अपराह्ण १२:३० वादनपर्यन्तं पाठनं भविष्यति। विद्यालयेषु प्रार्थना-सभा योगाभ्यासश्च प्रातः ७:३० तः ७:४० वादनपर्यन्तं भविष्यतः। मध्यावकाशः प्रातः १०:०० तः १०:१५ वादनपर्यन्तं निर्धारितः अस्ति। पूर्वं एतेषां विद्यालयानां समयः प्रातः ८:०० तः अपराह्ण २:०० वादनपर्यन्तं आसीत्। अधुना मङ्गलवासरात् सर्वेषां परिषदीय-विद्यालयानां समये परिवर्तनं कृतम्। वाराणसी-जनपदं सहित्य अनेकेषु जनपदेषु पूर्वमेव उष्णतया समयः परिवर्तितः आसीत्।

मूल-शिक्षा-निदेशकः उक्तवान् यत् परिषदीय-शिक्षकाः, शिक्षामित्राणि, अनुदेशकाः, शिक्षणेत्तर-कर्मचारिणश्च प्रातः ७:३० तः अपराह्ण १:३० वादनपर्यन्तं विद्यालयेषु स्थित्वा शैक्षणिक-प्रशासकीय-अन्य-कार्याणि सम्पन्नयिष्यन्ति। मान्यता-प्राप्त-विद्यालयानां कृते प्रबन्ध-समितयः आवश्यक-निर्णयान् कर्तुं अधिकृताः सन्ति। उल्लेखनीयम् यत् प्रदेशे तीव्रा उष्णता आरब्धा अस्ति तथा ऋतु-विभागेन अनेकेषु जनपदेषु लू-प्रवाहस्य सम्भावना व्यक्ता।

मदरसा-विद्यालयानामपि समयः परिवर्तितः

एवमेव उत्तर-प्रदेश-मदरसा-शिक्षा-परिषदः अपि आदेशं निर्गतवान् यत् मङ्गलवासरात् मदरसा-विद्यालयेषु छात्राणां पाठन-समयः प्रातः ७:०० वादनात् अपराह्ण १२:३० वादनपर्यन्तं भविष्यति। पञ्जीकारिका अञ्जना-सिरोही इत्यस्याः निर्देशेन सर्वेषां जनपदानां अल्पसंख्यक-कल्याण-अधिकारिभ्यः आदेशः प्रेषितः यत् एतस्य पालनं सुनिश्चितं क्रियते। एषः आदेशः तत्क्षणात् प्रभावे प्रविष्टः।

हिन्दुस्थान समाचार / अंशु गुप्ता